पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


३४
काव्यमाला ।

तत्र शृङ्गारो द्विविधः । संयोगो विप्रलम्भश्च । रतेः संयोगकालावच्छिन्नत्वे प्रथमः । वियोगकालावच्छिन्नत्वे द्वितीयः । संयोगश्च न दंपत्योः सामानाधिकरण्यम् । एकतल्पशयनेऽपीर्ष्यादिसद्भावे विप्रलम्भस्यैव वर्णनात् । एवं वियोगोऽपि नु वैयधिकरण्यम् । दोषस्योक्तत्वात् । तस्माद्वाविमौ संयोगवियोगाख्यावन्तःकरणवृत्तिविशेषौ । यत्संयुक्तो वियुक्तश्चास्मीति धीः । तत्राद्यो यथा ‘शयिता सविधेऽप्यनीश्वरा' (१० पृष्ठे) इत्यत्र निरूपितः ।

यत्तु चित्रमीमांसायाम्-‘वागर्थाविव संपृक्तौ, इत्यत्र रसध्वनिः । निरतिशयप्रेमशालिताव्यञ्जनात्’ तद्ध्व​निमार्गानाकलननिबन्धनम् । पार्वतीपरमेश्वरविषयककविरतौ प्रधाने निरतिशयप्रेम्णो गुणीभावात् । न हि गुणीभूतस्य रत्यादे रसध्वनिव्यपदेशहेतुत्वं युक्तम् । ‘भिन्नो रसाद्यलंकारादलंकार्यतया स्थितः' इति सिद्धान्तात् ।

द्वितीयो यथा--

‘वाचो माङ्गलिकीः प्रयाणसमये जल्पत्यनल्पं जने
केलीमन्दिरमारुतायनमुखे विन्यस्तवक्त्राम्बुजा ।
निःश्वासग्लपिताधरोपरिपतद्बाष्पार्द्र​वक्षोरुहा
बाला लोलविलोचना शिव शिव प्राणेशमालोकते ॥'

अत्राप्यालम्बनस्य नायकस्य, निःश्वासाश्रुपातादेरनुभावस्य, विषादचिन्तावेगादेश्च व्यभिचारिणः, संयोगाद्र​तिरभिव्यज्यमाना वियोगकालावच्छिन्नत्वाद्विप्रलम्भरसव्यपदेशहेतुः ।

यथा वा--

‘आविर्भूता यदवधि मधुस्यन्दिनी नन्दसूनोः
कान्तिः काचिन्निखिलनयनाकर्षणे कार्मणज्ञा ।


कृत् । उक्तन्यायेन वीरादिष्वपि बोध्यमित्याह-एवमितिएकतल्पेति । एकखट्वायां निद्रायामपीत्यर्थः । एवमित्यस्यार्थमाह-दोषेति । ईर्ष्याद्यभावे वैयधिकरण्येऽपि संभोगस्यैव वर्णनादित्यर्थः । यद्यस्मात् । तत्राद्यः शयितेति पाठः । यथेति पाठे तथेति शेषः । माङ्गलिकीर्मङ्ग​लफलकाः । मारुतेति । गवाक्षविवर इत्यर्थः । निःश्वासैर्ग्ल​पितो