पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/५०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


३५
रसगङ्गाधरः ।

श्वासो दीर्घस्तद​वधि मुखे पाण्डिमा गण्डयुग्मे ।
शून्या वृत्तिः कुलमृगदृशां चेतसि प्रादुरासीत् ॥'
यथा वा-
‘नयनाञ्चलावमर्श या न कदाचित्पुरा सेहे।
आलिङ्गितापि जोषं तस्थौ सा गन्तुकेन दयितेन ॥'

इहापि सहजचाञ्चल्यनिवृत्तिर्जडता चानुभावव्यभिचारिणौ । इमं च पञ्चविधं प्राञ्चः प्रवासादिभिरुपाधिभिरामनन्ति । ते च प्रवासाभिलाषविरहेर्ग्याशापानां विशेषानुपलम्भान्नास्माभिः प्रपञ्चिताः ।

करुणो यथा-
‘अपहाय सकलबान्धवचिन्तामुद्वास्य गुरुकुलप्रणयम् ।
हा तनय विनयशालिन्कथमिव परलोकपथिकोऽभूः ॥'

अत्र प्रमीततनय आलम्बनम् । तत्कालावच्छिन्नबान्धवदर्शनाद्युद्दीपनम् । रोदनमनुभावः । दैन्यादयः संचारिणः ।

शान्तो यथा--
‘मलयानिलकालकूटयो रमणीकुन्तलभोगिभोगयोः ।
श्वपचात्मभुवोर्निरन्तरा मम जाता परमात्मनि स्थितिः ॥'

अत्र प्रपञ्चः सर्वोऽप्यालम्बनम् । सर्वत्र साम्यमनुभावः । मत्यादयः संचारिणः । यद्यपि प्रथमार्धे उत्तमाधमयोरुपक्रमाद्द्वितीयार्धेऽधमोत्तमवचनं


ग्लापितोऽधरोष्टो यस्य प्राणेशस्य तत्र । शिव शिवेति खेदातिशये । यदवधि यद्दिनादारभ्य । मधुस्यन्दिनी मधुस्राविणी । तदाकर्षणविषयकं यत्कार्मणं मन्त्रतन्त्रादि तज्ज्ञा । नयनेति । लोचनपक्ष्मस्पर्शमित्यर्थः । जोषं तूष्णीम् । गन्तुकेन गन्तुकामेन । इमं च विप्रलम्भे च । ते च प्रवासाद्युपाधयः । षष्ठ्यन्तपाठे चैवम् । अग्रे प्रथमान्तपाठे उपाधय इत्येवार्थः । प्रवासाभिलाषेति । प्रवासः प्रसिद्धः । अनादिसङ्गाभावेऽपि गुणश्रवणादिजन्याभिलाषे इच्छारूपे सति तदप्राप्तौ यः सोऽभिलाषहेतुक उच्यते । गुरुजनादिलज्जादितः संगमप्रतिबन्धो विरहः । ईर्ष्या असूयादिशब्देन मानहेतुक उच्यते । प्रिये सपत्नीरते कोप ईर्ष्या । तत्कृतो गुणेषु दोषारोपोऽसूया । शापाद्यथा शकुन्तलादेर्दुर्वासस इति प्राचामाशयः । प्रमीतो मृतः । तत्कालेति । मृतिकालेत्यर्थः । भोगिभोगः सर्पफणा । श्वपचेति । चण्डालज्ञानिनोरित्यर्थः । निरन्तरा तारतम्यशून्या । प्रपञ्च​