पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३
रसगङ्गाधरः ।

कदर्यवस्तुविलोकनजन्मा विचिकित्साख्यश्चित्तवृत्तिविशेषो जुगुप्सा ।

एवमेषां स्थायिभावानां लोके तत्तन्नायकगतानां यान्यालम्बनतयोद्दीपनतया वा कारणत्वेन प्रसिद्धानि तान्येषु काव्यनाट्ययोर्व्य​ज्यमानेषु विभावशब्देन व्यपदिश्यन्ते ।

विभावयन्तीति व्युत्पत्तेः ।

यानि च कार्यतया तान्यनुभावशब्देन ।

अनु पश्चाद्भाव उत्पत्तिर्येषाम् । अनुभावयन्तीति वा व्युत्पत्तेः ।

यानि सह चरन्ति तानि व्यभिचारिशब्देन ।

तत्र शृङ्गारस्य स्त्रीपुंसावालम्बने । चन्द्रिकावसन्तविविधोपवनपवनरहःस्थानाद​थ उद्दीपनविभावाः । तन्मुखावलोकनतद्गुणश्रवणकीर्तनादयोऽन्ये सात्त्विकभावाश्चानुभावाः । स्मृतिचिन्तादयो व्यभिचारिणः ।

करुणस्य बन्धुनाशाद​य आलम्बनानि । तत्संबन्धिगृहतुरगाभरणदर्श​नादय​स्तत्कथाश्रवणादयश्चोद्दीपकाः । गात्रक्षेपाश्रुपातादयोऽनुभावा रनिक्षयमोहविषादचिन्तौत्सुक्यदीनताजडतादयो व्यभिचारिणः ।

शान्तस्यानित्यत्वेन ज्ञातं जगदालम्बनम् । वेदान्तश्रवणतपोवन ....... दर्शनाद्युद्दीपनम् । विषयारुचिशत्रुमित्राद्यौदासीन्यचेष्टाहानिनासा....ष्ट्यादयोऽनुभावाः । हर्षोन्मादस्मृतिमत्यादयो व्यभिचारिणः ।

रौद्रस्यागस्कृत्पुरुषादिरालम्बनम् । तत्कृतोऽपराधादिरुद्दीपकः । वधबन्धादिफलको नेत्रारुण्यदन्तपीडनपरुषभाषणशस्त्रग्रहणादिरनुभावः । अमर्षवेगौग्र्य​चापलादयः संचारिणः ।

एवं यस्याश्चित्तवृत्तेर्यो विषयः स तस्या आलम्बनम् । निमित्तानि चोद्दीपकानीति बोध्यम् ।


ल्ल​क्षयति–एवमिति । स्थायिभाववदित्यर्थः । एषु स्थायिभावेषु । कार्यतया स्थायिभावानां प्रसिद्धानीत्यस्यषानुङ्गः । शब्देन, व्यपदिश्यन्त इत्यनुषङ्गः । एवमग्रेऽपि । लाघवादाह-अनुभावयन्तीति । तत्र तेषां मध्ये । तन्मुखेति । अन्योन्यमुखेत्यर्थः । एवमग्रेऽपि । अन्ये सात्त्विकेति । क्षेपस्त्यागः । चेष्टाहानिर्निश्चेष्टत्वम् । आगस्कृदपराध-