पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४७२ काव्यमाला। कृते तु वैपरीत्यम् । अस्मिन्नलंकारे समर्थ्यसमर्थकभाव आर्थः शाब्दश्चालंकारताप्रयोजकः । न तु काव्यलिङ्गे हेतुहेतुमद्भाव इवार्थ एव । हि यत् यतः इत्यादेः प्रतिपादकस्याभावे आर्थः । स तु कथितः 'मूर्छा गतो मृतो वा' इत्यत्र । तत्सत्त्वे शाब्दः । सोऽपि 'विपरीतग्रहणा हि' इत्यत्र । यथा वा- भवत्या हि व्रात्याधमपतितपाषण्डपरिष- त्परित्राणस्नेहः कथयितुमशक्यः खलु यथा । ममाप्येवं प्रेमा दुरितनिवहेष्वम्ब जगति स्वभावोऽयं सर्वैरपि खलु यतो दुष्परिहरः ॥' अत्र भगवत्या भागीरथ्याः स्तोतुश्च वृत्तान्तयोविशेषयोः समर्थकस्य चतुर्थचरणप्रतिपाद्यस्य सामान्यस्य समर्थकता यत इत्यनेनोच्यते । ननु सामान्यार्थो विशेषार्थसमर्थक इत्यस्य सामान्यव्याप्तिज्ञानं विशेषानुमितिप्रयोजकमित्येवार्थः पर्यवस्यति । अन्यथा स्वभावादेर्दुष्परिहरत्वादिव्यभिचारज्ञानदशायां तादृशार्थस्य समर्थकत्वापत्तेः । प्रतीतिविशदीकरणं समर्थकेन क्रियते, नानुमानमिति प्राचीनप्रवादस्त्वविचारितरमणीय इति नायं भेदोऽनुमानादतिशेते । अतिशेते च विशेषार्थेन सामान्यार्थसमर्थनरूपोऽधिकरणविशेषारूढसहचरज्ञानाहितव्याप्तिज्ञानदार्ढ्यात्मेति चेत्, कविः शृणोति । न चैवमपि विशेषस्य सामान्यसमर्थनं नार्थान्तरन्यासभेदो भवितुमीष्टे । प्रागुक्तोदाहरणालंकारेणैव गतार्थत्वादिति वाच्यम् । इवादिप्रयोगाभावस्यैवात्र ततो वैलक्षण्यात् । एवमपि वाचकाभावादार्थोऽयमुदाहर- णालंकारोऽस्तु, न त्वर्थान्तरन्यासभेद इति चेत्, इदमस्ति वैलक्षण्यम्-सामान्यार्थसमर्थकस्य विशेषवाक्यार्थस्य द्वयी गतिः। अनुवाद्यांशमात्रे विशेषत्वम्, विधेयांशस्तु सामान्यगत एवेत्येका । अनुवाद्यविधेयोभयांशेऽपि विशेषत्वमित्यपरा । तत्राद्या उदाहरणालंकारस्य विषयः, द्वितीया त्वर्थान्तरन्यासभेदस्य । एवं च 'मूर्छां गतो मृतो वा निदर्शनं पारदोऽत्र रसः' इत्युदाहरणालंकारगते विशेष उपकारमेव कुरुत इति प्राचीनसामान्यार्थगतैव यथोक्तरूपेण क्रिया विधेया । 'रोगानपहरति पारदः सकलान्' इत्यर्थान्तरन्यासगते तु पृथगुपात्तविशेषरूपेणेति । लक्षणे त्वस्य विशेषणे-