पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः । अथार्थान्तरन्यासः- सामान्येन विशेषस्य विशेषेण सामान्यस्य वा यत्समर्थनं तदर्थान्तरन्यासः। समर्थनं चेदमेवमनेवं वा स्यादिति संशयस्य प्रतिबन्धक इदमित्थमेवेति दृढप्रत्ययः । निश्चय इति यावत् । तत्र प्रकृतयोः सामान्यविशेषयोः समर्थ्यत्वम्, अप्रकृतयोर्विशेषसामान्ययोः समर्थकत्वं प्रायशो दृश्यते । तच्च तावत्साधर्म्यवैधर्म्याभ्यां द्विविधम् । उदाहरणम्- 'करिकुम्भतुलामुरोजयोः क्रियमाणां कविभिर्विशृङ्खलैः । कथमालि शृणोषि सादरं विपरीतग्रहणा हि योषितः ॥' अत्र संबोध्यकर्तृकस्य तदीयकुचवृत्तिकरिकुम्भतुलासादरश्रवणस्यानौचित्यं प्रतिपाद्यते । तच्च तस्यानिष्टसाधनत्वे संगच्छते । अनिष्टसाधनत्वमपि तादृशश्रवणमित्रसाधनमिति बुद्ध्या श्रवणं कुर्वाणायाः कान्ताया भ्रान्तात्वं विना दुरुपपादमिति स्त्रीत्वेन भ्रान्तात्वं प्रतिपाद्यते । तच्च संबोध्यस्त्रीविशेषभ्रान्तत्वरूपस्य विशेषस्य सामान्यं समर्थकं च । 'उपकारमेव कुरुते विपद्गतः सद्गुणो नितराम् । मूर्छां गतो मृतो वा रोगानपहरति पारदः सकलान् ॥ अत्र विपद्गतसद्गुणकर्तृकोपकारस्य सामान्यस्य प्रकृतस्य मूर्छितमृतपारदकर्तृकं रोगापहरणं विशेषः, उदाहरणतया समर्थकं च । पारदवृत्तान्ते प्रकृते तु पूर्वार्धोत्तरार्धयोर्व्य॑त्यासे कृते सामान्यस्य विशेषसमर्थकताप्यत्रैव संभवति । तथा- 'अहन्नेको रणे रामो यातुधानाननेकशः । असहाया महात्मानो यान्ति कांचन वीरताम् ॥' अत्र विशेषस्य सामान्यं समर्थकम् । वैपरीत्ये तु सामान्यस्य विशेषः । 'असहाया-' इत्याद्युत्तरार्धमपास्य 'नूनं सहायसंपत्तिमपेक्षन्ते बलोज्झिताः' इतिकृते विशेषो वैधर्म्येण सामान्यस्य । अर्धवैपरीत्ये दुर्बलवृत्तान्ते प्रदोषः । अत्र मग्नं अन्तरितः गता इति क्रिया अन्तर्भावितण्यर्थाः । तादृशक्रियाकर्मीभूतेन्दीवरादयो दैवनिष्टत्वात्तत्सादृश्यदर्शनजन्यसुखासहिष्णुत्वोपपादकाः । मञ्जितवाद्युपपादकानि त्वन्नेत्रसमानकान्तीत्यादिकानीति बोध्यम् ॥ इति रसगङ्गाधरमर्मप्रकाशे काव्यलिङ्गप्रकरणम् ॥