पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४७० काव्यमाला । लंकारसर्वस्वकृतोक्तम्, अनुमोदितं च कुवलयानन्दकृता । तदुभयमसत् । अनुमानार्थान्तरन्यासविषये हेत्वलंकारो नेति तावत्सर्वसंमतम् । अन्यथा तयोरुच्छेदापत्तेः । अयं चानुमानस्यैव विषयः । चतुर्थचरणे दैवरूपे पक्षे नायिकाङ्गसादृश्यदर्शनजन्यसुखासहिष्णुत्वरूपसाध्यस्य चरणत्रयवेद्येन तत्तदङ्गसादृश्याधारविघटकत्वेन हेतुना सिद्धेः स्फुटत्वात् । दैवं नायिकाङ्गसादृश्यदर्शनजन्यमनिष्टसुखासहिष्णु । तत्तन्नायिकाङ्गसादृश्याधारविघटकत्वात् । मदीयशत्रुभूतयज्ञदत्तादिवदिति च प्रयोगः । मृग्यश्चेति द्वितीयपद्ये यद्यपि संबोधने वक्तृनिष्ठे मृगीनेत्रव्यापारो ज्ञायमान उत्पादकः, तथा नासावुत्पादकता अनुमितिकरणताया अतिशेत इत्यनुमानालंकार एव युक्तः । इयांस्तु विशेषः—यत्पूर्वपद्येऽनुमितिर्गम्या, इह पुनर्बुध्यते वाच्या । मृग्यो दक्षिणानिलसंपर्कवत्यः, दक्षिणाभिमुखविलक्षणनेत्रव्यापारवत्वादिति च प्रयोगः । वैलक्षण्यं चोत्पक्ष्मेत्यादिनोक्तं बोध्यम् । अत्र वदन्ति-काव्यलिङ्गं नालंकारः । वैचित्र्यात्मनो विच्छित्तिविशेषस्याभावात् । स हि जन्यतासंसर्गेण कविप्रतिभाविशेषः, तन्निर्मितत्वप्रयुक्तश्चमत्कृतिविशेषो वेत्युक्तम् । न चानयोरन्यतरस्याप्यत्र संभवः । हेतुहेतुमद्भावस्य वस्तुसिद्धत्वेन कविप्रतिभानिर्वर्त्यत्वायोगात् । अत एव चमत्कृतिरपि दुर्लभा । श्लेषादिसंमिश्रणेन विच्छित्तिविशेषोऽत्राप्यस्तीति तु न वाच्यम् । तस्य श्लेषाद्यंशप्रयोज्यत्वेन काव्यलिङ्गस्यालंकारतायास्तथाप्यसिद्धेः । यत्र तूपस्कारकवैचित्र्याद्विलक्षणं तदुपस्कार्यवैचित्र्यं तत्रास्तु नामोपस्कारकादुपस्कार्यस्य पृथगलंकारत्वम् । यथातिशयोक्तेर्हेतुफलोत्प्रेक्षयोः । यत्र तूपस्कारकवैचित्र्य एव विश्रान्तिस्तत्रोपस्कार्यमनलंकार एव । यथा प्रकृते । एवं तर्हि बहूनामलंकारत्वेन प्राचीनैरूरीकृतानामनलंकारतापत्तिरिति चेत्, अस्तु । किं नश्छिन्नम् । तस्मात् 'निर्हेतुरूपदोषाभावः काव्यलिङ्गम्' इत्यपि वदन्ति । इति रसगङ्गाधरे काव्यलिङ्गप्रकरणम् । इह पुनर्बुध्यते वाच्येति । अत्रेदं चिन्त्यम्-एवं हि काव्यलिङ्गमात्रे गम्यानुमानस्य सत्त्वेन तदुच्छेदापत्तेः । तस्मादनुमितेर्बोधने गम्यत्वे चेदमिति व्यवस्थाश्रयणान्न