पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

रसगङ्गाधरः। ४७३ त्यत्रोभयांशविशेषो ग्राह्यः । तेनोदाहरणालंकृतौ नातिप्रसङ्गः । यदि चायमल्पो विशेषो नास्योदाहरणालंकारात्पृथगलंकारतां साधयितुं प्रभवति, अपि तु तद्विशेषतामित्युच्यते, तदा उदाहरणालंकारोऽर्थान्तरन्यासस्य, दृष्टान्तस्य प्रतिवस्तूपमा, रूपकस्यातिशयोक्तिश्च विशेषः, उपमैव चार्थी स्मरणभ्रान्तिमत्संदेहा इत्यपि सुवचं स्यात् । तत्रापि विशेषस्याल्पत्वात् । किं चोदाहरणालंकारो न प्राचां मनःसंतोषमावहति । उपमयैव तैस्तस्य निरासात् । अतस्तेषां विशेषेण सामान्यस्य समर्थनमर्थान्तरन्यासं विनान्यत्र प्रवेष्टुमीष्ट इति । अत्र हि प्रतिज्ञाहेत्ववयवयोरिवाकाङ्क्षाक्रमप्राप्तं समर्थ्यसमर्थकवाक्ययोः पौर्वापर्यमिति न मन्तव्यम् । नह्यत्र समर्थकं समर्थ्यानुपपत्त्युत्थापितायामाकाङ्क्षायां सत्यामेवाभिधीयत इत्यस्ति नियमः । अनुपपत्तेरभावेऽपि प्रतीतिवैशद्यार्थे कविमिस्तस्याभिधानात् । एवं च वैपरीत्येऽपि न दोषः । यथा-- 'दीनानामथ परिहाय शुष्कसस्यान्यौदार्य वहति पयोधरो हिमाद्रौ । औन्नत्यं विपुलमवाप्य दुर्मदानां ज्ञातोऽयं क्षितिप भवादृशां विवेकः ॥'

 अत्र दानेनासंभावितस्य विदुषो राजानं प्रति कोपवचने पूर्वार्धगतो

विशेष उत्तरार्धगतो सामान्ये प्रस्तुते समर्थकः । एवमप्रकृतैः प्रकृतस्य समर्थनमुदाहृतम् । प्रकृतेन प्रकृतसमर्थनं यथा-

'कस्तृप्येन्मार्मिकस्तन्वि रमणीयेषु वस्तुषु ।

हित्वान्तिकं सरोजिन्याः पश्य याति न षट्पदः ॥' जलक्रीडायां दूरं गच्छेति वदन्ती कामिनीं प्रति नायकस्योक्तिरियम् । अस्यां वृत्तान्तद्वयमपि प्रकृतम् । क्वचित्प्रकृतेनाप्रकृतस्य समर्थनं संभवति । परंतु तदप्रकृतं प्रान्ते प्रकृतपर्यवसन्नं भवति । आपाततस्तु तस्याप्रकृतत्वम् । सर्वथैवाप्रकृतस्य समर्थनाप्रसक्तेः । यथा--- 'प्रभुरपि याचितुकामो भजेत वामोरु लाघवं सहसा । यदहं त्वयाधरार्थी सपदि विमुख्या निराशतां नीतः ॥' प्राग्वदाह-अथेति । कविः शृणोतीति । कविनिबद्धप्रमात्रन्तरनिष्ठा ह्यनुमितिरनुमानालंकारस्य विषय इत्यादिना काव्यलिङ्गालंकारे दत्तोत्तरत्वादिति भावः ।