पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४ ६२ काव्यमाला। 'स्वर्गापवर्गौ खलु दानलक्ष्मीर्दानं प्रसूते विपुला समृद्धिः । समृद्धिमल्पेतरभागधेयं भाग्यं च शंभो तव पादभक्तिः ॥' इह च यद्यादौ कारणोक्तिरेव प्रस्तूयते तदा पुनस्तस्य कारणं तस्यापि कारणमिति, तत्कस्यचित्कारणं तदपि कस्यचिदिति वा कारणमाला युक्ता । यदा तु कार्योक्तिस्तदा तस्य कार्य तस्यापि कार्यमिति, तत्कस्यचित्कार्य तदपि कस्यचिदिति वा युक्ता । सर्वथैव यः शब्दः कार्यकारणतोपस्थापक आदौ प्रयुक्तः स एव निर्वाह्यः । एवं क्रमेण निब- न्धनमाकाङ्क्षानुरूपत्वाद्रमणीयम् । अन्यथा तु भग्नप्रक्रमं स्यात् । यथा प्राचीनानां पद्यम्- 'जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते । गुणाधिके पुंसि जनोऽनुरज्यते जनानुरागप्रभवा हि संपदः ॥' अत्र जितेन्द्रियत्वं विनयस्य कारणं श्रुत्वा जितेन्द्रियत्वस्यापि किं कारणमिति, विनयः कस्य कारणमिति वा आकाङ्क्षोदेति । कारणस्यैव श्रुतिवशात्पूर्वमुपस्थितेः । कारणं तु ज्ञातं कार्यं पुनरस्य किमिति क्वचिदाकाङ्क्षा तु कार्यत्वकारणत्वयोः संबन्धिपदार्थत्वात्कारणश्रुत्युत्तरमेकसबन्धिज्ञानाधीनकार्यत्वोपस्थित्या संगमनीया । न त्वसौ सार्वत्रिकी । एवं च विनयः कस्य कारणमित्याकाङ्क्षाया गुणप्रकर्षो विनयादवाप्यत इति वाक्यं यद्यपि फलतः परिपूरकं भवति तथापि न साक्षादित्यहृदयंगममेव । तथा गुणप्रकर्षात्किमाप्यत इत्याकाङ्कायां गुणाधिके पुंसीति च । अत्र च कथितपदत्वं न दोषः । प्रत्युत पदान्तरेण तस्यार्थस्योक्तौ रूपान्तरण स्थितस्य नटस्येव प्रत्यभिज्ञाप्रतिरोधकत्वाद्विवक्षितार्थसिद्धेरकुण्ठितत्वविरहादोषः स्यात् । शब्दादुपस्थितेऽर्थे प्रवृतिनिमित्तमिव शब्दोऽपि विशेषणतया भासते । तथा चोक्तम्-'न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते' इति । तत्तच्छब्दस्य विशिष्टश्चार्थः स्वरूपेणाभिन्नोऽपि विशेषणभेदाद्विलक्षणः प्रतीयते कुण्डगोलकादिवत् । ननु कुण्डगोलकादिपदेषु मृतामृतभर्तृकत्वादिरूपविशेषणघटितं प्रवृत्तिनिमित्तमित्यस्तु भिन्नाकारः प्रत्ययः । ताम्रः शोणो रक्त इत्यादौ तु ताम्रादिशब्दानां शक्तत्वेन