पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः । एवं श्लेषातिशयोक्त्याद्युपायोन्मीलितेन किंचिदंशाभेदाध्यवसानेनामुख एव प्रादुर्भावितो यो विरोधो विच्छित्तिमात्रात्मा क्षणप्रभावदननुवर्तमान- स्तन्मूलका विरोधाभासादयो व्याघातान्ता अलंकारा निरूपिताः । ते च नानारूपं वैचित्र्यं भजन्तो विरोधाभासस्यैव प्रभेदाः, न तु ततोऽतिरिताः, काश्चनस्येव कङ्कणादय इत्येके । रूपकदीपकादीनामौपम्यगर्भाणामुपमाभेदत्वापत्तेर्बहु व्याकुली स्यादिति परस्परच्छायामात्रानुसारिणो भिन्नविच्छित्तयो भिन्ना एवेत्यपरे । इति रसगङ्गाधरे व्याघातप्रकरणम् । अथ शृङ्खलामूला अलंकाराः- तत्र, पङ्क्तिरूपेण निबद्धानामर्थानां पूर्वपूर्वस्योत्तरोत्तरस्मिन्, उत्तरो- तरस्य वा पूर्वपूर्वस्मिन्संसृष्टत्वं शृङ्खला । तञ्च कार्यकारणताविशेषणविशेष्यतादिनानारूपम् । इयं च न स्वतन्त्रोऽलंकारः । वक्ष्यमाणप्रभेदैर्गतार्थत्वात् । नास्यास्तैर्विना विविक्तो विषयोऽस्ति । यथा हि रूपकादिष्वनुप्राणकतया स्थितोऽप्यभेदांशः समानधर्मांशो वा न पृथगलंकारः एवं प्रकृतेऽपीत्याहुः । तदपरे न क्षमन्ते । सावयवादिभेदै रूपकस्य, पूर्णालुप्तादिभिरुपमायाश्च गतार्थत्वात्स्वतन्त्रालंकारता न स्यात् । नहि विशेषनिर्मुक्तं सामान्यमस्ति येन विविक्तो विषयः स्यात् । तस्माच्छृङ्खलाया एव कारणमालादयो भेदा इति । मतयोरनयोस्तत्त्वमुपरिष्टाद्विवेचयिष्यामः । सैव शृङ्खला आनुगुण्यस्य कार्यकारणभावरूपत्वे कारणमाला । तत्र पूर्वं पूर्वं कारणं परं परं कार्यमित्येका । पूर्वं पूर्वं कार्य परं परं कारणमित्यपरा । यथाक्रमेण यथा- 'लभ्येत पुण्यैगृहिणी मनोज्ञा तया सुपुत्राः परितः पवित्राः । स्फीतं यशस्तैः समुदेति नूनं तेनास्य नित्यः खलु नाकलोकः ॥' गङ्गाधरमर्मप्रकाशे व्याघातप्रकरणम् ॥