पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

. काव्यमाला। अत्र दुर्जनसज्जनयोर्मदशमकर्तृत्वेऽपि न तदुद्देशेन प्रवृत्तिरितिलक्षणगतकर्तृविशेषणेनासंग्रहः । न चास्य व्याघातोदाहरणत्वे को दोष इति वाच्यम् । आश्रयविशेषस्वभावसाचिव्येनैकस्यैव कारणस्य विरुद्धकार्यद्यजनने बाधकविरहद्वयाहतेरेवाभावादुदाहरणत्वासंगतेः । नहि लोकसिद्धोऽर्थः काव्यालंकारास्पदं भवितुमर्हति । अपरो व्याघातो यथा- 'विमुञ्चसि यदि प्रिय प्रियतमेति मां मन्दिरे तदा सह नयस्व मां प्रणय यन्त्रणायन्त्रितः । अथ प्रकृतिभीरुरित्याखिलभीतिभङ्गक्षमा- न्न जातु भुजमण्डलादवहितो बहिर्भावय ॥' इदं दण्डकां प्रविविक्षुं भगवन्तं दाशरथिं प्रति भगवत्या जानक्या वाक्यम् । उभयविधेऽप्यस्मिन्व्याघाते पूर्वकर्तुरभीष्टव्याहननं तुल्यमिति प्राचां सिद्धान्तः । तथा च तेषामुदाहरणम्- 'दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ।।' इति । अत्र विचार्यते-व्यतिरेक एवात्रालंकारः । जयिनीर्विरूपाक्षस्य वामलोचना इति तस्यैव प्रकाशनात् । न चात्र व्यतिरेकोत्थापकतया व्याघातः स्थित इति वाच्यम् । एवमपि तस्यालंकारताया असिद्धेः । न ह्यलंकारोत्थापकेनालंकारेणैव भवितव्यमित्यस्ति नियमः । 'आननेनाकलंकेन जयतीन्दुं कलङ्किनम्' इत्यादाविव वस्तुमात्रेणापि व्यतिरेकोत्थापनो- पपत्तेः । नास्योक्तप्रकारव्यतिरेकनिर्मुक्तो विषयोऽस्ति येन स्वातन्त्र्यमभ्युपगच्छेम । तस्मादलंकारान्तराविनाभूतालंकारान्तरवदिहाप्यवान्तरोऽस्ति विच्छित्तिविशेषोऽलंकारभेदक इति प्राचामुक्तिरेवात्र शरणम् । यत्तु 'लुब्धो न विसृजत्यर्थं नरो दारिद्यशङ्कया । दातापि विसृजत्यर्थं तयैव ननु शङ्कया ॥' इति कुवलयानन्द उदाहृतम्, तन्न । लिकजन्मान्तरीयदारिद्यशङ्कयोरभेदाध्यवसानान्न लक्षणासमन्वय इत्याहुः ॥ इति रसग-