पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। शक्यतानवच्छेदकत्वाच्छक्यतावच्छेदकस्य च गुणगतजातिविशेषस्याभिन्नत्वादभिन्नाकारः प्रत्यय एवोचित इति चेत्, सत्यम् । 'उदेति सविता ताम्रस्ताम्र एवास्तमेति च । संपत्तौ च विपत्तौ च महतामेकरूपता ॥ इत्यत्र वैलक्षण्यशून्यतारूपस्यैकरूप्यस्य यथा प्रत्ययः, न तथा 'उदेति सविता ताम्रो रक्त एवास्तमेति च' इत्यत्र, इति सकलानुभवसिद्धम् । एवं च प्रवृत्तिनिमित्तभिन्नस्यापि शब्दस्य यदि शक्यविशेषणत्वं वैलक्षण्यान्यथानुपपत्यानुभवबलेन च सिद्धं तदा तदनुगुणैव व्युत्पत्तिः शब्दानां कल्प्यते । सा च वृत्तिसंबन्धेनार्थविशिष्टशब्दज्ञानत्वेन शब्दविशिष्टार्थोपस्थितित्वेन च सामान्यकार्यकारणभावरूपा । घटत्वादितत्तत्प्रवृत्तिनिमित्तप्रकारकबोधत्वेन तु वृत्तिसंबन्धेन घटविशिष्टपदज्ञानत्वादिना च विशेषतोऽपरः कार्यकारणभावः । विशेषसामग्रीसहिताया एव सामान्यसामग्र्या जनकतेति न कश्चिद्दोषः । यद्वा वृत्तिसंबन्धेन घटादिविशिष्ट पदज्ञानत्वेन घटादिपदघटत्वोभयप्रकारकघटादिविशेष्यकोपस्थितित्वेन च कार्यकारणभावः । पदार्थोपस्थितिशाब्दबोधयोः समानाकारत्वाच्छाब्दबोधेऽपि यदभानम् । अनुभवबलाञ्च प्रामाणिकं गौरवं न दोषाय । एतदभिसंधायैवोक्तम्-'न सोऽस्ति' इत्यादि । इति रसगङ्गाधरे कारणमालाप्रकरणम् । अथैकावली- सैव शृङ्खला संसर्गस्य विशेष्यविशेषणभावरूपत्वे एकावली। सा च पूर्वपूर्वस्योत्तरोत्तरं प्रति विशेष्यत्वे विशेषणत्वे चेति द्विधा । तत्राद्ये उत्तरोत्तरविशेषणस्य स्थापकत्वापोहकत्वाभ्यां द्वैविध्यम् । स्वसंबन्धेन विशेष्यतावच्छेदकनियामकत्वं स्थापकत्वम् । स्वव्यतिरेकेण विशेष्यतावच्छेदकव्यतिरेकबुद्धिजनकत्वमपोहत्वम् । उदाहरणम् -- 'स पण्डितो यः स्वहितार्थदर्शी हितं च तद्यत्र परानपक्रियाः । परे च ते ये श्रितसाधुभावाः सा साधुता यत्र चकास्ति केशवः॥' कारणमाला स्पष्टा ॥ प्राग्वदाह-अथेति । परानपेति । परानपकार इत्यर्थः । तेषां शृङ्खलावयवानां