पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५४ काव्यमाला। अत्र सावकाशतयेत्यनेन कल्पितया आधेयन्यूनतया आधारस्य महत्त्वं पर्यवस्यति । यदि तु सावकाशतयेति विशेषणं विश्वाश्रय इत्यत्रापि योज्यते तदा शृङ्खलारूपस्याधाराधिकालंकारस्येदमेवोदाहरणम् । 'ब्रह्माण्डमण्डले मान्ति न ये पिण्डीकता अपि । परस्परापरिचिता वसन्ति त्वयि ते गुणाः ।। अत्रोभयविधस्याप्यस्यालंकारस्य सामानाधिकरण्यम् । लक्षणे कल्पनमित्यनेन यत्राधाराधेययोरन्यतरस्य न्यूनत्वमधिकत्वं च वास्तवं तत्र नातिप्रसङ्गः । एवं च- 'क्वाहं तमोमहदहंखचराग्निवार्मू- संवेष्टिताण्डघटसप्तवितस्तिकायः। क्वेदृग्विधाविगणिताण्डपराणुचर्या- वाताध्वरोमविवरस्य च ते महित्वम् ॥' इति श्रीभागवतदशमस्कन्ध (१४।११)गतं ब्रह्मस्तुतिपद्यमस्यालंकारस्यानुदाहरणमेव । दिक्कालानवच्छिन्नस्य पारमेश्वरस्य भूम्नः सर्ववेदसिद्धत्वेन कविप्रतिभानुल्लिखितत्वात् । एतेन- 'द्यौरत्र क्वचिदाश्रिता प्रविततं पातालमत्र क्वचि- त्क्वाप्यत्रैव धरा धराधरजलाधारावधिर्वर्तते । स्फीतस्फीतमहो नभः कियदिदं यस्येत्थमेभिः स्थितै- र्दूरे पूरणमस्तु शून्यमिति यन्नामापि नास्तं गतम् ॥ इत्यलंकारसर्वस्वकारेण यदुदाहृतं तदपि प्रत्युक्तम् । इति रसगङ्गाधरेऽधिकालंकारप्रकरणम् । १. 'ननु ब्रह्माण्डविग्रहस्त्वमपीश्वर एवेति चेत्तत्राह-क्वाहमिति । तमः प्रकृतिः । महान्महत्तत्त्वम् । अहमहंकारः । खमाकाशः । चरो वायुः । अग्निः । वार्जलम् । भूश्च । प्रकृत्यादिपृथिव्यन्तैरेतैः संवेष्टितोऽण्डघटः स एव तस्मिन्वा स्वमानेन सप्तवितस्तिः कायो यस्य सोऽहं क्व, क्व च ते महित्वम् । कथंभूतस्य । ईदृग्विधानि यान्यविगणितान्यण्डानि त एव परमाणवस्तेषां चर्या परिभ्रमणं तदर्थे वाताध्वानो गवाक्षा इव रोमविवराणि यस्य तस्य तव । अतोऽतितुच्छत्वात्त्वयानुकम्प्योऽहमिति' इति भागवत- टोका श्रीधरो.