पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः । ४६९ अथान्योन्यालंकारः- द्वयोरन्योन्येनान्योन्यस्य विशेषाधानमन्योन्यम् । विशेषश्च क्रियादिरूपः । यथा- 'सुदृशो जितरत्नजालया सुरतान्तश्रमबिन्दुमालया। अलिकेन च हेमकान्तिना विदधे कापि रुचिः परस्परम् ।। अत्र गुणरूपविशेषाधानम् । रुचेर्गुणत्वात् । न च विधानरूपक्रियात्मकविशेषाधानमिह शङ्कयम् । भावनासामान्यरूपस्य विधानस्याचमत्कारित्वेनाविशेषत्वात् । 'परपूरुषदृष्टिपातवज्राहतिभीता हृदयं प्रियस्य सीता । अविशत्परकामिनीभुजंगीभयतः सत्वरमेव सोऽपि तस्याः ॥' अत्र क्रियारूपविशेषाधानम् ।। यत्तु- "यथोर्ध्वाक्षः पिबत्यम्बु पथिको विरलाङ्गुलिः । तथा प्रपापालिकापि धारां वितनुते तनुम् ।' अत्र प्रपापालिकायाः पथिकेन स्वासक्त्त्या पानीयदानव्याजेन बहुकालं स्वमुखावलोकनमभिलषन्त्या विरलाङ्गुलिकरणतश्चिरं पानीयपानानुवृत्तिसंपादनेनोपकारः कृतः । तथा प्रपापालिकयापि स्वमुखावलोकनमभिलषतः पथिकस्य धारातनूकरणतश्चिरं पानीयदानानुवृत्तिसंपादनेनोपकारः कृतः।" इति कुवलयानन्दकार आह । तन्न । तावदियं पदरचनैवायुष्मतो ग्रन्थकर्तुयुत्पत्तिशैथिल्यमुद्गिरति । तथा हि-स्वमुखावलोकनमभिलषन्त्या इत्यत्र स्वशब्दस्य प्रपापालिकाविशेषणघटकत्वेन प्रपापालिकाबोधकत्वमेव न्याय्यम्, न पान्थबोधकत्वम् । एवं स्वमुखावलोकनमभिलषत इत्यत्रापि पान्थबोधकत्वमेव, न त्वदिष्टप्रपापालिकाबोधकत्वम् । एवं स्थितेऽर्थासंगतिः स्पष्टैव । न च सर्वनाम्नां बुद्धिस्थप्रकारावच्छिन्ने शक्तत्वादिष्टबोधोपपत्तिरिति वाच्यम् । तदिदमस्मद्युष्मदादिष्विव तत्तद्विशेषव्युत्पत्तेरपि कल्पनीयत्वात् । सा च प्रकृते यद्विशेषणघटकत्वेन स्वनिजादयः शब्दा उपात्तास्तद्बोधका इत्येवंरूपा । तेन स्वदाररतानां