पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला । - इति। तदपि न रमणीयम् । अत्र भरमुग्ग्रविततेत्यादिना बाहुगतास्थिसंधिमङ्गरूपानिष्टप्राप्तेः साक्षादुपात्तत्वात्सर्वाङ्गचूर्णीभावगर्वापहाररूपायाश्च स्फुटं गम्यमानत्वात्कथमिष्टाप्राप्तिमात्रमित्युच्यते । एतेन 'शैलपतनरूपानिष्टावाप्तिस्तु भगवत्कराम्बुजस्पर्शमहिम्ना न ज्ञाता' इति यदुक्तं तदप्यसारमेव । अनिष्टानामुक्तत्वात् । एवमुत्पत्तिलक्षणसंसर्गस्याननुरूपत्वं निरूपितम् । संयोगादिलक्षणसंसर्गस्याननुरूपत्वं यथा- 'वनान्तः खेलन्ती शशकशिशुमालोक्य चकिता भुजप्रान्तं भर्तुः श्रयति भयहर्तुः सपदि या । अहो सेयं सीता शिव शिव परीता श्रुतिचल- त्करोटीकोटीभिर्वसति खलु रक्षोयुवतिभिः ॥' अत्र सतीशिखामणेर्भगवत्या राघवधर्मपत्न्याः परमप्रभावयुक्तत्वाद्राक्षसीभिरनाश्यत्वेऽपि रक्षःकर्तृकनाशस्वरूपयोग्यतावच्छेदकमनुष्यत्वजातियोगेन स्वरूपस्य रक्षोदर्शनेन सौन्दर्यसौकुमार्यादीनां गुणानां च नाश्यत्वेन विरुद्धत्वात्समानाधिकरणसंयोगरूपः संसर्गोऽननुरूपः । ननु- 'क्व शुक्तयः क्व वा मुक्ताः क्व पङ्कः क्व च पङ्कजम् । क्व मृगाः क्व च कस्तूरी धिग्विधातुर्विदग्धताम् ॥' इत्यादी वस्तुकथनमात्रे विषमालंकारप्रसङ्गः । न चेष्टापत्तिः । वस्तुवृत्तस्य लोकसिद्धत्वेनालंकारत्वायोगात् । यतो बहिरसन्तः कविप्रतिभामात्रकल्पिता अर्थाः काव्येऽलंकारपदास्पदम् । नच 'यथा पद्मं तथामुखम्' इत्यादौ सादृश्यस्य लोकसिद्धत्वात्कविप्रतिभानुत्थापितत्वेऽपि कथमलंकारत्वमिति वाच्यम् । सादृश्यरूपे सादृश्योत्थापके वा अभिन्नधर्मेऽभेदांशस्य कविप्रतिभामात्राधीनत्वात् । नहि पद्ममुखयोः शोभारूपो धर्मों जात्यादिवद्वस्तुत एकोऽस्ति । यो हि जात्यादिरूपो वस्तुत एकस्तदुत्थापितं चिन्त्यम् । अत्रेति । यत इत्यादिः । बाहुगतास्थिसंधीति । तस्या धात्वर्थत्वात्, भगवत्करस्पर्शमहिम्ना तस्याप्यजातत्वाच नेदं युक्तम् । यत्तु कुटिलीभवनं तत्रातर्कितोत्कटपर्वतधारणे तस्य संभावितत्वेन तदङ्गीकृतत्वात्, गर्वेण गोपानामप्रवृत्तेश्च। खिन्नोऽसीत्युक्त्या तथैव लाभाच्च ॥ इति रसगङ्गाधरमर्मप्रकाशे विषमप्रकरणम् ।।