पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

। रसगङ्गाधरः। सादृश्यमलंकारबहिर्भूतमेव । यथा-'पद्ममिवास्या मुखं द्रव्यम्' इत्यादौ । एवं च 'वनान्तः खेलन्ती' इति पद्यप्रतिपाद्यायाः सीताराक्षसवधूसंसर्गाननुरूपताया लौकिकीत्वेन कविप्रतिभानपेक्षत्वान्नालंकारत्वम् । एतेन- 'अरण्यानी केयं धृतकनकसूत्रः क्व स मृगः 'क्व मुक्ताहारोऽयं क्व च स पतगः क्वेयमवला । क तत्कन्यारत्नं ललितमहिभर्तुः क्व च वयं स्वमाकूतं धाता कमपि निभृतं पल्लवयति ॥' इत्यलंकारसर्वस्वकृतोदाहृतमपि प्रत्युक्तम् । इयमेव च पद्यान्तरेऽपि कविप्रतिभानुत्थापितार्थके सरणिरिति सत्यम् । एवं तर्हि 'क्व सा कुसमसाराङ्गी सीता चन्द्रकलोपमा । क्व रक्षःखदिराङ्गारमध्यसंवासवैशसम् ॥' इति पद्यमुदाहरणं गृहाण । अत्र हि केवलसीतायाः केवलराक्षसीनां च संसर्गस्यानननुरूपतायां सत्यामपि न सा कवेर्विवक्षिता । किं तु या कुसुमसारखदिराङ्गारसंसर्गस्याननुरूपता सेति स्फुटमेवास्यामलौकिकत्वात्कविप्रतिभापेक्षित्वम् । इति रसगङ्गाधरे विषमालंकारप्रकरणम् । अथ समालंकारः- अनुरूपसंसर्गः समम् । संसर्गः पूर्ववविविधः । तत्रोत्पत्तिलक्षणस्य संसर्गस्यानुरूपत्वं कारणात्स्वसमानगुणकार्योत्पत्त्या, यादृशगुणकवस्तुसंसर्गस्तादृशगुणोत्पत्त्या, यत्किंचिदिष्टप्राप्त्यर्थं प्रयुक्तात्कारणात्तत्प्राप्त्या च । उत्कटेष्टान्तरप्राप्तौ तु प्रहर्षणं वक्ष्यते । संयोगादिलक्षणस्यापि संसर्गिणोरन्यतरगुणस्वरूपानुग्राह्यान्यतरगुणस्वरूपतयानुरूपत्वम् । एवं चानुरूपसंसर्गत्वेन सामान्यलक्षणेन सर्वे भेदाः संगृहीता भवन्ति । यथा- 'कुवलयलक्ष्मी हरते तव कीर्तिस्तत्र किं चित्रम् । यस्मान्निदानमस्या लोकनमस्याङ्गिपङ्कजस्तु भवान् ।।' -