पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। 'मृशति त्वयि यदि चापं स्वापं प्रापन्न केऽपि नरपालाः । शोणे तु नयनकोणे को नेपालेन्द्र तव सुखं स्वपितु ॥" अत्र चापस्पर्शनयनशोणिम्नोर्हेत्वोः स्वापनाशरूपकार्यवैयधिकरण्येऽतिप्रसङ्गवारणाय विरुद्धेत्यादि । इह च विभिन्नदेशस्थयोरेव तयोः कार्यप्रयोजकतया विरोधानवकाशात् । ननु शोणिमाभिव्यक्तस्य रोषस्य कालिकसंबन्धेन हेतुत्वादस्तु नाम कार्यभिन्नदेशत्वम् चापस्पर्शस्य तु लीलया कृतस्य स्वरूपतो हेतुत्वाभावात्तज्ज्ञानं स्वापनाशे हेतुत्वेनाभ्युपगन्तव्यम् । एवं च तस्य कथं वैयधिकरण्यमिति चेत् । न । प्रयोजकस्यापि हेतुपदेनात्र ग्रहणाददोषः । प्रयोजकत्वं च चापस्पर्शस्य भ्रमात्मकरोषानुमितिलिङ्गत्वात् । उदाहरणम्- 'अङ्गैः सुकुमारतरैः सा कुसुमानां श्रियं हरति । प्रहरति हि कुसुमबाणो जगतीतलवर्तिनो यूनः ॥ यथा वा- 'दृष्टिर्मृगीदृशोऽत्यन्तं श्रुत्यन्तपरिशीलिनी । मुच्यन्ते बन्धनात्केशा विचित्रा वैधसी गतिः ॥ अत्राद्योदाहरणे शुद्धा, द्वितीये तु श्लेषोपबृंहितेति विशेषः । प्रहरतीत्यत्राभेदाध्यवसायलक्षणेनातिशयेनापराधनिमित्तकताडनरूपतयावस्थिते कामपीडने विषय्यंशमालम्ब्य तं प्रति समानाधिकरणतया प्रसिद्धस्य हेतोरपराधरूपस्य वैयधिकरण्यज्ञानात्पुरः स्फुरन्विरोधो विषयांशविमर्शोत्तरं तं प्रति कुसुमश्रीहरणाभिव्यक्तशोभाविशेषस्य भावनोपनीतस्य तद्भावनाया वा हेतुत्वस्य प्रतिसंधानान्निवर्तत इत्यभेदाध्यवसानमनुप्राणकम् विरोधाभासश्चोत्कर्षकः । एवमन्यत्रापि बोध्यम् । अस्यां च विभावनायामिव कार्यांशेऽतिशयोक्त्यनुप्राणनमावश्यकम् । अन्यथा विरोधो दुष्परिहर एव स्यात्, इत्यलंकारसर्वस्वकारादीनां मतम् । प्राग्वदाह-अथेति । वैयधिकरण्यं भिन्नदेशत्वम् । प्रयोजकेति । यत इत्यादिः । भ्रमात्मकरोषानुमितीति । लीलया करणाद्भ्रमात्मकत्वम् । श्लेषोपबृंहितेति ।