पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। गितावच्छेदकविशिष्टवैशिष्टयेन श्रुत्या प्रतिपादनं तत्र विभावनाविशेषोक्त्योः शाब्दत्वम् । अन्यत्रार्थत्वम् । यथा- 'भगवद्वदनाम्भोज पश्यन्त्या अप्यहर्निशम् । तृष्णाधिकमुदेति स्म गोपसीमन्तिनीदृशः॥' लोके ह्यसंनिकर्षस्तृष्णाकारणम् । तदभावे संनिकर्षेऽपि तृष्णोपनिबद्धा । तथा संनिकर्षस्तृप्तिकारणम् । तस्मिन्सत्यपि तृप्त्यभावो बोधितः । परंतु कारणाभावकार्याभावयोर्न प्रागुक्तप्रकारेण प्रतिपादनमित्यार्थत्वमेव तदुभयसंशयसंकरस्य । अमुमेव चार्थं मनसिकृत्य मम्मटभट्टैः 'यः कौमारहरः' इति पद्यमुदाहृत्योक्तम्-'अत्र स्फुटो न कश्चिदलंकारः' इति । वामनस्तु—'एकगुणहानिकल्पनायां साम्यदाय विशेषोक्तिः' इत्याह । उदाजहार च–'द्युतं हि नाम पुरुषस्यासिंहासनं राज्यम्' इति । अत्र हि द्यूते राज्यं तादात्म्येनारोप्यते । तत्र सिंहासनरहितं हि द्यूतं सिंहासनसहितराज्यतादात्म्यं कथं बहेदित्यारोपोन्मूलकयुक्तिनिरासायारोप्यमाणे राज्येऽपि सिंहासनराहित्यं कल्प्यते । तेन दृढारोपं रूपकमेवेदम् । न विशेषोक्तिः । एवं च- 'अचतुर्वदनो ब्रह्मा द्विवाहुरपरो हरिः । अभाललोचनः शंभुर्भगवान्बादरायणः ॥' इति पौराणपद्येऽपि रूपकमेव । तथा गुणाधिक्यकल्पनायामपि त- देव । यथा-'धर्मो वपुष्मान्भुवि कार्तवीर्यः' इत्यादौ । एतेन 'एकगुणहान्युपचयादिकल्पनायां साम्यदार्ढ्यं विशेषणम्' इति विशेषालंकार लक्षयन्तोऽपि प्रत्युक्ताः। इति रसगङ्गाधरे विशेषोक्तिप्रकरणम् ।

-

अथासंगतिः- विरुद्धत्वेनापाततो भासमानं हेतुकार्ययोर्वैयधिकरण्यमसंगतिः। व्यवहार इति दिक् । न प्रागुक्तप्रकारेणेति । प्रतियोगितावच्छेदकवैशिष्टयेन श्रुत्या प्रतिपादनाभावादित्यर्थः ॥ इति रसगङ्गाधरमर्मप्रकाशे विशेषोक्तिप्रकरणम् ॥