पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। अनुक्तनिमित्तायां निमित्तं निमित्ततावच्छेदकरूपेण चिन्त्यमानं प्रतीयते । इह तु न तथा । किं तु भविष्यति किंचिन्निमित्तमित्याकारेणेत्यनुक्तनिभित्तातोऽचिन्त्यनिमित्ताया भेद इति ह्येषामाशयः । अन्ये तु- 'नानुक्तनिमित्तायां चिन्त्यत्वं निमित्तविशेषणम् । भेदान्तरकल्पनागौरवप्रसङ्गात् । किं तु चिन्त्यमचिन्त्यं चेति द्विप्रकारकमपि निमित्तं यत्र नोक्तं सानुक्तनिमित्ता । तेनाचिन्त्यनिमित्ता अनुक्तनिमित्तातो न पृथग्भावमर्हति' इत्याहुः । अत्र च कारणसमवधानं कार्यानुत्पत्तेर्बाध्यमिति बहवः । वस्तुतस्तु कार्यानुत्पत्तिरेवास्मिन्नलंकारे बाध्या । 'कर्पूर इव दग्धोऽपि शक्तिमान्यो जने जने । नमोऽस्त्ववारवीर्याय तस्मै मकरकेतवे ॥' 'स एकस्त्रीणि जयति जगन्ति कुसुमायुधः । हरतापि तनुं यस्य शंभुना न बलं हृतम् ॥' इति प्राचीनप्रसिद्धोदाहरणेषु कारणसमवधानस्य कामशरीरनाशरूपस्य प्रमाणसिद्धत्वेन बाध्यत्वायोगात् । यतः कामस्य शरीरनाशेऽपि शक्तिबलयो नाशः कुतो न जात इत्येव सर्वजनीनः प्रत्ययः, न तु शक्तिबलयोः सतोः कथं शरीरनाश इति । 'दृश्यतेऽनुदिते यस्मिन्नुदिते नैव दृश्यते । जगदेतन्नमस्तस्मै कस्मैचिद्वोधभानवे ॥ इत्यत्रोदयाभावे जगद्दर्शनस्य, उदयसत्वे दर्शनाभावस्य वर्णनेऽपि न विभावनाविशेषोक्ती । नह्यत्र साहजिकसूर्योदयो वर्ण्यते । येन तयोः प्रसङ्गः स्यात् । तथात्वे तूक्तिसंभव एव न स्यात् । किं तु ब्रह्मात्म्यैक्यबोधसूर्योदयः । तस्य च जगददर्शनमेव कार्यम् । न तु जगद्दर्शनम् । तथात्वे तु सूर्योदयस्येवास्याप्युक्तिसंभवो न स्यात् । अत एव व्यतिरेकोल्लासस्ताद्रूप्यरूपकालीढे संगच्छते । कारणभावकार्याभावयोर्यत्र प्रतियो- प्राग्वदाह-अथेति । ताद्प्यरूपकालीढ इति । वैधर्म्य॑स्य शब्दोपात्तत्वादभेदस्य प्रतीत्यसंभवादचमत्कारित्वाच्च तद्वृत्तिधर्मवत्त्वस्यैव प्रतीतेरस्य ताद्रूप्यरूपकत्व-