पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। ४११ तञ्च 'दृष्टिर्मृगीदृशः' इत्यस्मन्निर्मितोदाहरणे व्यभिचारादसंगतम् । नहि 'मुच्यन्ते बन्धनात्केशाः' इत्यत्र केशबन्धनमुक्त्यंशेऽतिशयोक्तिरस्ति । किं तु श्लेषभित्तिकाभेदाध्यवसानमात्रम् । तस्माद्येन केनापि प्रकारेण कार्यांशेऽभेदाध्यवसानमावश्यकमिति तु संगतम् । यद्यपि 'दृष्टिर्मृगीदृशः' इत्यादौ कारणांशेऽपि श्लेषादिनाभेदाध्यवसायः संभवति, तथापि नासौ तदंशे नियतः। 'खिद्यति सा पथि यान्ती कोमलचरणा नितम्बमारेण । खिद्यन्ति हन्त परितस्तद्रूपविलोकिनस्तरुणाः ॥' इत्यादौ भारजनितखेदांशे तदभावात् । न च तत्रापि जलपूर्णघटादिभारजनितखेदेन सह नितम्बमारजनितखेदस्याभेदाध्यवसायोऽस्त्येवेति वाच्यम् । नितम्बभारजनितखेदस्य स्वस्वरूपेणापि खेदजनकत्वेन भारान्तरजनितखेदाभेदाध्यवसायानपेक्षणात् । 'सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः' इति प्राचीनानां पद्ये बालात्वस्त्रीत्वाद्यंशे तल्लेशस्याप्यसंभवाच्च । यत्तु 'विरोधालंकारे ह्येकस्मिन्नधिकरणे द्वयोः संबन्धाद्विरोधप्रतिभानम्, असंगतौ त्वधिकरणद्वय इति तस्मादस्य वैलक्षण्यम्' इति विमर्शिनीकार आह तदसत् । इहापि तत्कार्यतावच्छेदकधर्मतत्तत्कारण- वैयधिकरण्यरूपयोर्धर्मयोरेकस्मिन्कार्यरूपेऽधिकरणे संबन्धादेव विरोधप्रतिभानोत्पत्तेः । तस्माद्विरोधालंकारे उत्पत्तिविमर्शे विनैव विरोधप्रतिभानम् । इह तूत्पत्तिविमर्शपूर्विकैव विरोधप्रतिभोत्पत्तिः इति वैलक्षण्यमिति । वस्तुतस्तु-व्यधिकरणत्वेन प्रसिद्धयोः समानाधिकरणत्वेनोपनिबन्धने विरोधालंकारः । समानाधिकरणत्वेन प्रसिद्धयोद्वयोवैयधिकरण्येनोपनिबन्धनेऽसंगतिः । प्रागुक्तासंगतिलक्षणे हेतुकार्ययोरिति च समानाधिकरणमात्रोपलक्षणम् । तेन 'नेत्रं निरञ्जनं तस्याः शून्यास्तु वयमद्भुतम्' इत्यत्र निरञ्जनत्वशून्यत्वयोरुत्पाद्योत्पादकभावलक्षणसंबन्धानन्तर्भावेण शुद्धसमानाधिकरणत्वेन प्रसिद्धयोरप्यसंगतिः संगच्छते । यथाश्रुते तु सा न स्यात् । इत्थं च स्फुट एव विरोधालंकारादसंगतेर्भेदः । यस्तु पुनर्विरोधालंकारादतिरिक्तः शुद्धविरोधांशो विरोधमूलेषु सर्वेष्वप्यलंकारेष्वनुस्यूतः,