पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४१८ काव्यमाला। विपक्षाणां वक्षस्यहह तरुणानां निपतति प्रगल्भाः श्यामानामनुपरतकामाः प्रकृतयः ॥' अत्रार्थान्तरन्यासपोषिता । ननु कथमत्र व्याजस्तुतिः । वाच्याभ्यामेव निन्दास्तुतिभ्यां स्तुतिनिन्दयोर्गम्यत्वे तस्या अभ्युपगमात् । नह्यत्र चापप्रतापस्य केवलस्य केवलवसुमत्याद्यालिङ्गनं वाच्यभूतं निन्दास्पदं भवति । समासोक्त्या त्वाविर्भूतो विटव्यवहारो निन्दास्पदमपि न वाच्यः, अपि तु गम्य इति चेत्, आमुखप्रतीतपदेन हि प्रतीतावपर्यवसितत्वमात्रमत्र विवक्षितम् । न तु वाच्यत्वपर्यन्तम् । गौरवात् । प्रकृते च किं तावता स्तव्यत्वमित्यादिना निन्दाया एवोपोद्वलनात्समासोक्तिसाचिव्येन सैव प्रथमं प्ररूढा पश्चाच्च स्तुतिरिति न कोऽपि दोषः । एवं च 'भाग्यं ते शाल्मलितरो वद किं परिकथ्यते । द्विजैः फलाशया युक्तैः सेव्यसे यदहर्दिवम् ॥' इत्यत्राप्रस्तुतप्रशंसासंकीर्णाप्येषा भवति । एतेन "किं वृत्तान्तैः परगृहगतैः किं तु नाहं समर्थ- स्तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यस्वभावः । देशे देशे विपणिषु तथा चत्वरे पानगोष्ठया- मुन्मत्तेव भ्रमति भवतो वल्लभा देव कीर्तिः ।।' इत्यत्र प्राचीनपद्ये प्रक्रान्तापि स्तुतिपर्यवसायिनी निन्दा कीर्तिरिति भणित्योन्मूलिता, न तु प्ररोहं गमिता" इति यत्सर्वस्वकतोक्तम् । यच्चापि तद्व्याख्यायां विमर्शिन्याम् 'अनुदाहरणमेवैतत्पद्यं व्याजस्तुतेः' इति ध्वन्यालोचनकारोक्तिं कटाक्षेण लक्षीकृत्योक्तं तन्निरस्तम् । 'किं वृत्तान्तैः' इत्यादिना निन्दाया एव प्रथममुन्नयनात्समासोक्तेरुद्गतेर्वाच्यत्वस्यातन्त्रत्वात् । अन्वयक्रमेणादौ वल्लभयैवान्वये तस्याश्च कीर्त्यभिन्नत्वेनावस्थाने सति पश्चात्प्रकरणादिपर्यालोचनवशाद्वयुक्रमेणान्वयबोधाच्च । तस्माद्धवन्यालोचनकारैरुक्तमुदाहरणं संगतमेव । दावप्ययमेवालंकार इत्याहुः । अत्रार्थान्तरेति । समासोक्तिरप्येति बोध्यम् । एवं च अस्याः समासोक्त्यादिपोषितत्वे च । द्विजैः खगैः । विपणिषु हट्टेषु। समयः संकेतः ।