पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। ४१९ इयं च व्याजस्तुतिर्यस्यैव वस्तुनः स्तुतिनिन्दे प्रथममुपक्रम्येते तस्यैव चेन्निन्दास्तुत्योः पर्यवसानं भवेत्तदा भवति । वैयधिकरण्ये तु न इति प्राचामलंकारशास्त्रप्रवर्तकानां समयः । अत एव यत्र शब्देनाभिधीयमाना स्तुतिनिन्दा वा बाधितस्वरूपा निन्दायां स्तुतौ च स्वसमर्पणेन पर्यवस्यतीति तैस्तत्र तत्र स्वग्रन्थेषूपनिबद्धम् । एवं च 'परोपसर्पणानन्तचिन्तानलशिखाशतैः । अचुम्बितान्तःकरणाः साधु जीवन्ति पादपाः ॥' इत्यादिषु सांसारिकजननिन्दापर्यवसायिन्यामपि पादपस्तुतौ न व्याजस्तुतित्वम् । प्रथमप्रतीयमानस्तुतेरबाधितत्वात् । एवं निन्दया स्तुतेर्गम्यत्वेऽपि । तथा अन्यस्य स्तुत्यान्यस्तुतौ अन्यनिन्दया वान्यनिन्दायां गम्यमानायां नास्या अलंकृतेर्विषयः । पूर्वोक्तादेव हेतोः । यथा- 'ये त्वां ध्यायन्ति सततं त एव कृतिनां वराः । मुधा गतं पुराराते भवदन्यधियां जनुः ॥' अत्र पूर्वोत्तरार्धगताभ्यां ध्यातृस्तुतिनिन्दाभ्यां ध्येयस्तुतिनिन्दयोरवगमः । एवं स्थिते कुवलयानन्दकर्ता स्तुतिनिन्दाभ्यां वैयधिकरण्येन निन्दास्तुत्योः स्तुतिनिन्दयोर्वावगमे प्रकारचतुष्टयं व्याजस्तुतेर्यदधिकमुक्ततदपास्तम् । यदि तु प्राचीनसंकेतसेतुं निर्भिद्य स्वरुचिरमणीया सरणिराद्रियते तदा निवेश्यन्तां सर्वेऽपि व्यङ्ग्यप्रकारा गुणीभूतव्यङ्ग्यप्रकारा वा अलंकारोदरेषु । निवेश्यतां वा व्याजस्तुतिरपि योगार्थालीढत्वादप्रस्तुतप्रशंसायाम् । निरस्यतां च कार्यकारणादिविषयकत्वदुराग्रहस्तस्या इति बहुव्याकुली स्यात् । एवं तर्हि पूर्वोक्तं प्रकारचतुष्टयं कुत्रान्तर्भवतु इति चेत्, व्यङ्गयभेदेष्विति गृहाण । नहि व्यङ्गयभेदाः सर्वेऽप्यपरिमिता अलंकारप्रकारगोष्पदेऽन्तर्भावयितुं शक्यन्ते । यच्चापि कुवलयानन्दकृता निन्दाया गम्यत्वे उदाहृतम्- तैः प्राचीनैः । व्यङ्ग्यभेदेष्विति गृहाणेति । अत्रेदं चिन्त्यम्-व्यङ्गयभेदेष्वप्यप्रस्तुतप्रशंसापर्यायोक्ताद्यलंकारस्वीकारवदत्राप्यलंकारत्वे बाधकाभावात् । न चाप्रस्तुतप्रशंसैवास्ताम् । विनिगमकाभावात् । नहि लक्ष्य एव व्याजस्तुतिर्न व्यङ्गय इत्यत्र शपथातिरिक्तं प्रमाणमस्ति । गुणीभूतव्यङ्ग्यत्वाच्च न ध्वनित्वम् । प्राचीनग्रन्थविरोधस्त्व.