पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। ४१७ - आद्या यथा- 'उर्वी शासति मय्युपद्रवलवः कस्यापि न स्यादिति प्रौढं व्याहरतो वचस्तव कथं देव प्रतीपो वयम् । प्रत्यक्षं भवतो विपक्षनिवहैर्द्यामुत्पतद्भिः क्रुधा यद्युष्मत्कुलकोटिमूलपुरुषो निर्भिद्यते भास्करः ।।' अत्र राजवर्णनप्रस्तावे निन्दा बाधिता स्तुतौ पर्यवस्यति । द्वितीया यथा- 'किमहं वदामि खल दिव्यमते गुणपक्षपातमभितो भवतः । गुणशालिनो निखिलसाधुजनान्यदहर्निशं न खलु विस्मरसि ॥ अत्र दुश्चरितोत्कीर्तनप्रस्तावे स्तुतिस्तथाभूता निन्दायाम् । अत्र चैक एवार्थः केनचिदाकारेणादौ स्तुतेर्निन्दाया वा विषयो भूत्वा प्रकरणादिमहिम्ना प्रकारान्तरेण निन्दायाः स्तुतेर्वा विषयो भवति । तत्र यावानंशो बाधितस्तावानेवान्यथात्वेन पर्यवस्यति । अंशान्तरं तु स्वभावेनैवावतिष्ठते । इयं चालंकारान्तरसंकीर्णा यथा- 'देव त्वां परितः स्तुवन्तु कवयो लोभेन किं तावता स्तव्यस्त्वं भवितासि यस्य तरुणश्चापप्रतापोऽधुना । क्रोडान्तः कुरुतेतरां वसुमतीमाशाः समालिङ्गति द्यां चुम्वत्यमरावतीं च सहसा गच्छत्यगम्यामपि ॥' अत्र चापप्रतापस्य समासोक्त्या विटधौरेयव्यवहाराश्रयत्वप्रतीतिः । तन्मूला च निन्दा स्तुतौ पर्यवस्यति । यथा वा 'अये राजन्नाकर्णय कुतुकमाकर्णनयन स्फुरन्ती हस्ताम्भोरुहि तव कृपाणी रणमुखे । धिता निन्दायां पर्यवस्यति । अत्र च उभयत्र च । प्रकारान्तरेणेति । वस्तुमाहात्म्यादेतद्धटकपदानां लक्षणया आक्षेपाद्वेत्यर्थः । तावानेवान्यथात्वेनेति । तत्र च लक्षणैव । एवं च स्तुतेर्लक्ष्यत्वात्तामादाय ध्वनित्वम् । लक्षणायाः प्रयोजनीभूतः स्तुत्यतिशयादिः । व्यङ्ग्यमादाय ध्वनित्वे इष्टापत्तिरेव। एवं च 'उपकृतं बहु नाम-' इत्या-