पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। इत्यत्र च्चिप्रत्ययेन तद्भेदावगमाद्रूपकासंभवेन पर्यायोक्तं भवितुमर्हति । गम्यं चान्तर्व्याप्तचरणकत्वमन्तर्व्याप्ताङ्गकत्वं च । तदेवं संक्षेपतस्त्रिविधः । वाग्भङ्गीनां तु पर्यालोचने एकस्मिन्नेव विषयेऽनन्तप्रकारः संपद्यते, किमुत विषयभेदे । यथा-'इह भवद्भिरागन्तव्यम्' इति विषये 'अयं देशोऽलंकर्तव्यः' इति, 'पवित्रीकर्तव्यः' इति, 'सफलजन्मा कर्तव्यः' इति, 'प्रकाशनीयः' इति, 'देशस्यास्य भाग्यान्युज्जीवनीयानि' इति, 'तमांसि तिरस्करणीयानि' इति, 'अस्मन्नयनयोः संतापो हरणीयः' इति; 'मनोरथः पूरणीयः' इत्यादिः । कार्यादीनां त्वारोपेण निष्पत्तिरन्वेष्टव्या । एवं च पर्यायोक्तस्य कार्यरूपाप्रस्तुतप्रशंसया विषयापहारमाशङ्काय कार्यकारणयोर्द्वयोरपि प्रस्तुतत्वे पर्यायोक्तम्, कार्यस्याप्रस्तुतत्वे कारणस्य च प्रस्तुतत्वे कार्यरूपाप्रस्तुतप्रशंसेति विषयविवेकः सर्वस्वकृता कृतः । तत्र न्यूनविषयया कार्यरूपाप्रस्तुतप्रशंसया बहुविषयस्यास्य विषयापहारो न संगच्छत एव । परं त्वनेन तस्या विषयापहारमाशङ्कय विषयविभागः कर्तुमुचितः। इति रसगङ्गाधरे पर्यायोक्तप्रकरणम् । अथ व्याजस्तुतिः- आमुखमतीताभ्यां निन्दास्तुतिभ्यां स्तुतिनिन्दयोः क्रमेण पर्यवसानं व्याजस्तुतिः। तृतीयातत्पुरुषकर्मधारयाभ्यां योगार्थद्वयेन द्वयोरपि शब्दार्थत्वम् । आमुखेत्यादिविशेषणेन तयोः पर्यवसानाभावं वदन्बाधितत्वमभिप्रैति । अत एव नास्या ध्वनित्वम् । ध्वनौ हि निर्बाधेन वाच्येनागूरणमहिम्नार्थान्तरमवगम्यते । न चैवं प्रकृते । इति कुवलयानन्दे ध्वनितं तट्टीकायां स्पष्टं तत एव बोध्यमिति दिक् ।। इति रसगङ्गाधरमर्मप्रकाशे पर्यायोक्तप्रकरणम् ।। आमुखति । शब्दतो वृत्त्या प्रथमप्रतीताभ्यामित्यर्थः । तदाह-आमुखेत्यादिति । अस्या व्याजस्तुतेः । न च नहि । राजेति । सूर्यवंशेत्यादिः । तथाभूतबो-