पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। क्रियन्त इत्याधुनिकानां वाचोयुक्तिरयुक्तैव । यतः समासोक्तिव्याजस्तुत्यप्रस्तुतप्रशंसाद्यलंकारनिरूपणेन कियन्तोऽपि गुणीभूतव्यङ्गयभेदास्तैरपि निरूपिताः । अपरश्च सर्वोऽपि व्यङ्ग्यप्रपञ्चः पर्यायोक्तकुक्षौ निक्षिप्तः । न ह्यनुभवसिद्धोऽर्थो बालेनाप्यपह्नोतुं शक्यते । ध्वन्यादिशब्दैः परं व्यवहारो न कृतः । नह्येतावतानङ्गीकारो भवति । प्राधान्यादलंकार्यों हि ध्वनिरलंकारस्य पर्यायोक्तस्य कुक्षौ कथंकारं निविशतामिति तु विचारान्तरम् । अयं चालंकारः क्वचित्कारणेन वाच्येन कार्यस्य गम्यत्वे, क्वचित्कार्येण कारणस्य, क्वचिदुभयोदासीनेन संबन्धिमात्रेण संबन्धिमात्रस्य चेति विपुलविषयः । तत्र 'त्वां सुन्दरीनिवह-' इति पद्ये पातिव्रत्यस्खलनेन कारणेन तं प्रति प्राप्तिः कार्यं गम्यते । समासोक्तिरत्रोत्थापिका । एतेन कार्यात्कारणप्रतीतिवत्कारणात्कार्यप्रतीतेर्वैचित्र्याभावात्' इति टीकाकारोक्तमपास्तम् । 'अपकुर्वद्भिरनिशं धृतराष्ट्र तवात्मजैः । उप्यन्ते मृत्युबीजानि पाण्डुपुत्रेषु निश्चितम् ॥' अत्र बीजवापेन कारणेन कुलक्षयः कार्यरूपो गम्यते । कार्येण कारणस्य गम्यत्वे यथा- 'त्वद्विपक्षमहीपालाः स्वर्बालाधरपल्लवम् । पीडयन्तितरां तीव्रदारुणैर्दशनक्षतैः ॥ अत्र वैरिणां सुरवधूसंभोगेन कार्येण मरणं कारणं गम्यते । तदुभयोदासीनेन यथा-'सूर्याचन्द्रमसौ यस्य-' इति पूर्वोदाहृते पद्ये सूर्यचन्द्रकररज्यमानवस्त्रत्वेन न कार्येण नापि कारणेन केवलं सहचरितेन गगनाम्बरत्वं गम्यते । एवम्- 'यश्चरणत्राणीकृतकमलासनपन्नगेन्द्रलोकयुगः । सर्वाङ्गावरणपटीकतकनकाण्डः स वामनो जयति ॥' दिभिः । एवमग्रेऽपि । यत इति पाठः । परं केवलम् । तेन तदुत्थापिततत्कृतचमत्कारसत्त्वेन । अत्र च 'अयं चालंकारः क्वचित्' इत्यादिः 'अन्वेष्टव्या' इत्यन्तो ग्रन्थश्चिन्त्य