पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११४ काव्यमाला। शिरश्छेदः कारणरूपो गम्यते । एवमन्यत्रापि पर्यायोक्तं ज्ञेयम्' इति त्वदुपजीव्यग्रन्थविरोधाच्च । तस्मादत्र राहुशिरश्छेदकारित्वेनावगमः पर्यायोक्तस्य विषयः, न तु भगवद्रूपेणेति सहृदयैराकलनीयम् । अस्मिश्चालंकारे व्यङ्गयं वाच्यपरम् । अप्रस्तुतप्रशंसायां तु वाच्यं व्यङ्गयपरम् । तेनायमलंकारो वाच्यसिद्ध्यङ्गगुणीभूतव्यङ्गयभेद इति ध्वनिकारानुयायिनः । यत्तु- "स्वसिद्धये पराक्षेपः परार्थं स्वसमर्पणम् । उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा ।। इत्युक्तयुक्त्या लक्षणाद्वयाश्रितत्वादनयोरवान्तरोऽपि विषयभेदोऽस्ति" इति स्वमूलग्रन्थाशयं वर्णयता विमर्शिनीकारेणोक्तम्, तन्न । नहि 'चक्राभिघातप्रसभाज्ञयैव-' इति पद्ये चुम्बनमात्रशेषरतोत्सवांशे बाधोऽस्ति । येन लक्षणा स्यात् । एवमप्रस्तुतप्रशंसायामप्यप्रस्तुतस्य प्रस्तुते न लक्षणा, किं तु व्यञ्जनैवेति सर्वसंमतम् । अन्यथा पर्यायोक्ते वाच्यस्य प्राधान्यम्, अप्रस्तुतप्रशंसायां तु गम्यस्येति सिद्धान्तस्य भङ्गः स्यात् । लक्षणायां हि लक्ष्यस्यैव प्राधान्यं स्यात्, न वाच्यस्य । यत्र वाच्योऽर्थोऽर्थान्तरं स्वोपस्कारकत्वेनागूरयति तत्र पर्यायोक्तम्, यत्र स्वात्मानमेवाप्रस्तुतत्वात्प्रस्तुतमर्थान्तरं प्रति समर्पयति तत्राप्रस्तुतप्रशंसेति तन्मूलग्रन्थविरोधाच्च । नहि लक्षणा आगूरणं भवति । तस्मात्पर्यायोक्ते वाच्यस्य प्राधान्यम्, अप्रस्तुतप्रशंसायां तु नेति तन्मूलग्रन्थस्य तात्पर्यम् । इदं तु बोध्यम्-ध्वनिकारात्प्राचीनैर्भामहोद्भटप्रभृतिभिः स्वग्रन्थेषु कुत्रापि ध्वनिगुणीभूतव्यङ्गयादिशब्दा न प्रयुक्ता इत्येतावतैव तैर्ध्वन्यादयो न स्वी- तत्स्वीकारे प्रकृते तेनैव गतार्थता स्पष्टैव । न चास्मिनलंकारे व्यङ्गयं वाच्यमरमप्रस्तुतप्रशंसायां तु वाच्यं व्यङ्ग्यपरमतो सा नेति वाच्यम् । 'कस्त्वं भो:-' इत्यादावप्रस्तुतप्रशंसायां व्यङ्गयस्य वाच्याङ्गत्वेन तस्या भेदकत्वात् । प्राचीनग्रन्थविरोधस्तु तत्र तद्दूषणप्रवृत्तस्य भूषणमेव । एवं च सर्वस्वलोचनकृतः क्लेशो व्यर्थो दुष्टश्चैत्यपि सम्यगेवेति । कश्चित्तु--"यच्छब्दस्य बुद्धिस्थत्वं शक्यतावच्छेदकमिति मते 'नमस्तस्मै-' इत्युदाहरणम्, तत्तद्रूपेण सर्वनाम्नां शक्तिरिति मते तु 'निवेद्यतां हन्त-' इत्यादि" इत्याह । तैर्भामहा-