पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। ४१३ रित्वेनैव व्यङ्गयत्वमेष्टव्यम्, न स्वासाधारणधर्मरूपेण । न चात्र पर्यायोक्तं नास्तीति कस्यापि संमतम् । यदप्युक्तम् 'सर्वस्वकारस्य लोचनकर्तुश्च सर्वोऽप्ययं क्लेशः किमिति न विद्मः' इति, तत्र यदर्थं तेषां क्लेशस्तत्तु तन्मतनिष्कर्षावसर एव निरूपितम् । यदप्युक्तम् "चक्राभिघातं प्रसभाशया-' इति प्राचीनोदाहरणे यद्राहुशिरश्छेदावगमनं तत्र प्रागुक्तरीत्या प्रस्तुताङ्कुर एव । यत्तु प्रस्तुतेन राहोः शिरोमात्रावशेषेनालिङ्गनवन्ध्यत्वापादनरूपे वाच्ये भगवतो रूपान्तरे उपपादिते भगवद्रूपेणावगमनं तत्पर्यायोक्तस्य विषयः" इति, तदपि न । यदि राहुशिरश्छेदावगमनं त्वत्कल्पितस्य प्रस्तुताङ्कुरस्य विषयः स्यात्तदा कि पर्यायोकेन । भगवद्रूपेणावगमनं तु विशेषणमर्यादालभ्यत्वेनासुन्दरम् 'नमो राहुशिरश्छेदकारिणे' इत्यादाविव न कस्याप्यलंकारस्य विषय इत्युक्तमेव । प्रस्तुताङ्कुरस्य प्राचीनैरस्वीकाराञ्च । स्वीकारे वा प्रस्तुतेन स्वसदृशो वाक्यार्थः प्रस्तुत एव यत्र व्यज्यते स तस्य विषयोऽस्तु । न तु कार्येण प्रस्तुतेन कारणावगमनम् । अन्यथा ह्यप्रस्तुतेन कार्येण प्रस्तुतकारणावगमने अप्रस्तुतप्रशंसैव । प्रस्तुतेन कार्येण प्रस्तुतस्यैव कारणस्यावगमनं तु पर्यायोक्तस्य विषय इत्यलंकारसर्वस्वकारादिभिः प्राचीनैः कृतो विषयविभाग उच्छिन्न एव स्यात् । राहुवधूगतेन विशिष्टेन रतोत्सवेन राहु- हरणे तादृशव्यङ्ग्यस्यैव सत्त्वाच्च । न च नहि । चक्राभिघातमिति णमुल्लन्तम् । चक्रमभिहत्येत्यर्थः । यत्वित्यस्यावगमनेऽन्वयः । असुन्दरमिति । चिन्त्यमिदम् । इष्टापत्तेः व्यङ्गयसौन्दर्यस्याविवक्षितत्वात् व्यङ्गयापेक्षया वाच्यस्यैवात्र चारुतरत्वमिति स्पष्टं तदुक्तेः । अत्रैवालंकारे व्यङ्गयं वाच्यपरमिति ध्वनिकृतः । तादृशविशेषणं हि व्यङ्गयमादायैवोपपद्यत इति तदाशयः । 'राहुस्त्रीकुचनैष्फल्यकारिणे हरये नमः' इत्यत्र राहुशिरश्छेदरूपकारणमात्रावगमने प्रस्तुताड्कुरः । राहुशिरश्छेदकारित्वेन भगवतोऽवगमने पर्यायोक्तमपि । एतेन नम इत्याद्यग्रिममपि प्रस्तुताराभावप्रतिपादकमपास्तम् । राजाज्ञामात्रत्वात् । किं च मुख्यार्थतात्पर्यविषयीभूतार्थेन वाच्येन व्यङ्गयेन वा वाच्यं व्यक्तं वा प्रस्तुतं यत्र सादृश्याद्यन्यतमप्रकारेण प्रशस्यते साप्रस्तुतप्रशंसेत्यप्रस्तुतप्रशंसालक्षणस्य भवतानुपदोक्तस्य राहुशिरश्छेदकारित्वरूपव्यङ्गयांशे सत्त्वेनाप्रस्तुतप्रशंसयैव निर्वाहे कि पर्यायोक्तेनेति नियोगे उत्तरं विभाव्यताम् । न चात्र द्वयोरपि मुख्यतात्पर्यविषयतेति वाच्यम् । एवं तर्हि 'आपेदिरेऽम्बरपथं' इत्यत्रापि यदा द्वयोर्मुख्यतात्पर्य विषयता तदा कोऽलंकार इत्यत्रोत्तरं विभाव्यताम् । अस्मन्मते तु प्रस्तुताङ्कुर एव । भवतापि