पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। कार्येण कारणं गम्यं यथा- 'किं बूमस्तव वीरतां वयममी यस्मिन्धराखण्डल क्रीडाकुण्डलितभु शोणनयने दोर्मण्डलं पश्यति । नानाभूषणरत्नजालजटिलास्तत्कालमेवाभव- न्विन्ध्यक्ष्माधरगन्धमादनगुहासंबन्धिनो भूरुहाः ॥' अत्र विन्ध्यारण्यतरुभूषणेनारिपलायनं गम्यते । यदि तु वक्ष्यमाणरीत्या पर्याक्योक्तालंकारस्यायं विषय इत्युच्यते तदेदं विविक्तमुदाह- रणम्- 'नितरां परुषा सरोजमाला न मृणालानि विचारपेशलानि । यदि कोमलता तवाङ्गकानामथ का नाम कथापि पल्लवानाम् ॥' अत्र पल्लवादितिरस्कारेण कार्येण तदङ्गानां सौकुमार्यातिशयः कारणम् । कार्यकारणभावश्चेह ज्ञानयोः । तेन पारुष्यस्य मृणालगतत्वेन ज्ञायमानस्य स्वरूपतस्तदङ्गसौकुमार्याजन्यत्वेऽपि न क्षतिः । कारणेन कार्य गम्यं यथा- 'सृष्टिः सृष्टिकृता पुरा किल परित्रातुं जगन्मण्डलं त्वं चण्डातप निर्दयं दहसि यज्ज्वालाजटालैः करैः । संरम्भारुणलोचनो रणभुवि प्रस्थातुकामोऽधुना जानीमो भवता न हन्त विदितो दिल्लीधरावल्लभः ॥' अत्र राजवर्णनाङ्गत्वेन रवेर्भयोत्पादने वर्ण्यत्वेन प्रस्तुते साक्षात्तदननुगुणत्वादप्रस्तुतेन प्रस्थानेन साक्षात्तदनुगुणं रिपुकर्तृकसूर्यमण्डलभेदनं गम्यते । यदि चात्र कारणं यथाकथंचित्प्रस्तुतमेवेत्युच्यते तदेदमुदाहरणम्- 'आनन्य वल्गुवचनैर्विनिवारितेऽपि रोषात्प्रयातुमुदिते मयि दूरदेशम् । बाला कराङ्गुलिनिदेशवशंवदेन क्रीडाबिडालशिशुनाशु रुरोध मार्गम् ॥'