पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। - अत्र प्रवासान्निवृत्तोऽस्मीति प्रस्तुतमप्रस्तुतेन कारणेन गम्यते । सामान्येन विशेषो यथा- 'कृतमपि महोपकारं पय इव पीत्वा निरातङ्कः । प्रत्युत हन्तुं यतते काकोदरसोदरः खलो जगति ।' अत्र सामान्यार्थेन प्रस्तुतो विशेषो गम्यते । उपमाप्यस्या आनुगुण्येन स्थिता। विशेषेण सामान्यं यथा- 'पाण्डित्यं परिहृत्य यस्य हि कृते बन्दित्वमालम्बितं दुष्प्रापं मनसापि यो गुरुतरैः क्लेशैः पदं प्रापितः । रूढस्तत्र स चेन्निगीर्य सकलां पूर्वोपकारावलीं दुष्टः प्रत्यवतिष्ठते तदधुना कस्मै किमाचक्ष्महे ॥' अत्र दुष्टेषु कृत उपकारः परिणामे न सुखं जनयतीति प्रस्तुतं विशेषेण सामान्यं गम्यते । यथा वा- 'हारं वक्षसि केनापि दत्तमज्ञेन मर्कटः । लेढि जिघ्रति संक्षिप्य करोत्युन्नतमास(न)नम् ॥ अत्र मर्कटवृत्तान्तेनाप्रस्तुतेन प्रस्तुतमनभिज्ञेषु रमणीयवस्तुसमर्पणं नाशाय भवतीति सामान्यं गम्यते । एवं पञ्चप्रकारेयमप्रस्तुतप्रशंसा प्राचामनुसारेण निरूपिता । वस्तुतस्तु प्रथमस्याप्रस्तुतप्रशंसाप्रकारस्य नानाविधत्वं संभवति । यत्रात्यन्तमप्रस्तुतेन वाच्येन प्रस्तुतं गम्यते स प्रकारो निगदित एव । यत्र च स्थलविशेषे वृत्तान्तद्वयमपि प्रस्तुतं सोऽप्येको यथा जलक्रीडाप्रकरणे भ्रमरकमलिन्यादिषु पुरःस्थितेषु नायके च स्वनायिकायामननुरक्ते पार्श्ववर्तिनि नायिकासख्याः कस्याश्चिदुक्तौ 'मलिनेऽपि रागपूर्णा-' इत्यादि प्रागुदाह्रते पद्ये । अथात्र कथमप्रस्तुतप्रशंसा। वाच्यार्थस्य प्रस्तुतत्वेनैतल्लक्षणानालीढत्वादिति चेत् न । अप्रस्तुतशब्देन हि मुख्यतात्पर्यविषयीभूतार्थातिरिक्तोऽर्थो विवक्षितः । स च क्वचिदत्यन्ताप्रस्तुतः क्वचित्प्रस्तुतश्चेति न कोऽपि दोषः । न च ध्वनिमात्रस्या-