पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। इयं च सादृश्यमूलाप्रस्तुतप्रशंसोच्यते । अस्यां च वाक्यार्थः क्वचित्प्रतीयमानार्थताटस्थ्येनैवावतिष्ठते । यथोक्तोदाहरणेषु । क्वचिच्च स्वगतविशेषणान्वययोग्यतामासादयितुं प्रतीयमानाभेदमपेक्षते । यथा- 'समुपागतवति दैवादवहेलां कुटज मधुकरे मा गाः । मकरन्दतुन्दिलानामरविन्दानामयं महामान्यः ॥' यथा वा- 'तावत्कोकिल दिवसान्यापय विरसान्वनान्तरे निवसन् । यावन्मिलदलिमालः कोऽपि रसालः समुल्लसति ॥' अत्र वृक्षपक्षिणोः संबोधनानुपपत्त्या प्रतीयमानांशतादात्म्यमपेक्ष्यते । 'मलिनेऽपि रागपूर्णा विकसितवदनामनल्पजल्पेऽपि । त्वयि चपलेऽपि च सरसां भ्रमर कथं वा सरोजिनीं त्यजसि ॥ अत्र त्यागानौचित्यहेतुत्वेन कमलिन्याः स्तुतिरूपं विशेषणमुपात्तम् । तञ्च न संभवति । नहि भ्रमरे श्यामत्वादिर्दोषः कमलिन्याः शोणत्वादिर्वा गुणः येन स्तुतिः स्यात् । अतो वाच्यार्थस्य प्रतीयमानतादात्म्यं विशेष्यांशे विशेषणांशे चापेक्ष्यते । पूर्वत्रांशेन इह तु साकल्येनेति विशेषः । क्वचिच्च प्रतीयमानमपि किंचिदंशे वाच्यतादात्म्यं वाच्यं च किंचिदंशे प्रतीयमानतादात्म्यमपेक्षते । यथा- 'सरजस्कां पाण्डुवर्णां कण्टकप्रकराङ्किताम् । केतकीं सेवसे हन्त कथं रोलम्ब निस्त्रपः ॥' अत्र यथा सरजस्कत्वं वाच्यप्रतीयमानयोरुभयोरपि सेवनानौचित्ये निमित्तं न तथा पाण्डुवर्णत्वकण्टकितत्वे । यतः पाण्डुवर्णत्वं केतक्यां न दोषः । प्रत्युत गुण एवेति पाण्डुरत्वांशे केतक्यां नायिकातादात्म्यमपेक्ष्यते । नायिकायां च कण्टकितत्वांशे केतकीतादात्म्यम् । पुलकितत्वस्य कामिनीत्यागाननुगुणत्वात्प्रत्युत तत्सेवनानुगुणत्वात् । मम्मटोक्तिमाह-समेति । इयं श्लिष्टविशेषणा । अस्यामप्रस्तुतप्रशंसायाम् । यथोक्तेति । दिगन्त इत्यादिष्वित्यर्थः । विशेष्यांशे विशेषणांशे चेति । संबोधनानुपपत्त्या विशेष्यांशे श्यामत्वादेविशेषणत्वाद्युपपत्तये विशेषणांशे चेत्यर्थः । रोलम्बो