पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
काव्यमाला ।

दयाह्लादहेतुत्वम् । प्रत्युत नायक इव सहृदयेऽपि दुःखजननस्यैवौचित्यात् । न च सत्यस्य शोकादेर्दुःखजनकत्वं कॢप्तं न कल्पितस्येति नायकानामेव दुःखम्, न सहृदयस्येति वाच्यम् । रज्जुसर्पादेर्भयकम्पाद्यनुत्पादकतापत्तेः । सहृदये रतेरपि कल्पितत्वेन सुखजनकतानुपपत्तेश्येति चेत् । सत्यम् । शृङ्गारप्रधानकाव्येभ्य इव करुणप्रधानकाव्येभ्योऽपि यदि केवलाह्लाद एव सहृदयहृदयप्रमाणक​स्तदा कार्यानुरोधेन कारणस्य कल्पनी यत्वाल्लोकोत्तरकाव्यव्यापारस्यैवाह्लादप्रयोजकत्वमिव दुःखप्रतिबन्धकत्वमपि कल्पनीयम् । अथ यद्याह्लाद इव दुःखमपि प्रमाणसिद्धं तदा प्रतिबन्धकत्वं न कल्पनीयम् । स्वस्वकारणवंशाच्चोभयमपि भविष्यति । अथ तत्र कवीनां कर्तुम्, सहृदयानां च श्रीतुम्, कथं प्रवृत्तिः । अनिष्टसाधनत्वेन निवृत्तेरुचितत्वात् । इति चेत् । इष्टस्याधिक्यादनिष्टस्य च न्यूनत्वाच्च​न्दनद्रवलेपनादाविव प्रवृत्तेरुपपत्तेः । केवलाह्लादवादिनां तु प्रवृत्तिरप्रत्यूहैव । अश्रुपातादयोऽपि तत्तदानन्दानुभवस्वाभाव्यात् । न तु दुःखात् । अत एव भगवद्भक्तानां भगवद्वर्णनाकर्णनादश्रुपातादय उपपद्यन्ते । न हि तत्र जात्वपि दुःखानुभवोऽस्ति । न च करुणरसादौ स्वात्मनि शोकादिमद्दशरथादितादात्म्यारोपे यद्याह्लादस्तदा स्वप्नादौ संनिपातादौ वा स्वात्मनि तदारोपेऽपि स स्यात् । आनुभविकं च तत्र केवलं दुःखम् । इतीहापि तदेव, युक्तमिति वाच्यम् । अयं हि लोकोत्तरस्य काव्यव्यापारस्य महिमा, यत्प्रयोज्या अरमणीया अपि शोकादयः पदार्था आह्लादमलौकिकं जनयन्ति । विलक्षणो हि कमनीयः काव्यव्यापारज आस्वादः प्रमाणान्तरजादनुभवात् । जन्यत्वं च स्वजन्यभावनाजन्यरत्यादिविषय-


नेनेत्यर्थः । तस्य रत्यादेः । रज्जुसर्पादेरिति । तद्रूपसर्पादेरित्यर्थः । केवलेति । दुःखामिश्रेत्यर्थः । दुःखप्रतिबन्धेति । सुरतकालिकदन्ताद्याघातस्येवेत्यर्थः । प्रमाणेत्यस्य सहृदयेत्यादिः । तत्र करुणप्रधानकाव्ये । द्वितीयमतेनेदमुक्तं नाद्यमतेनेत्याह–केवलेति । न चाद्य​मतेऽश्रुपातादयो न स्युः, तेषां दुःखकार्यत्वादत आह-अश्रुपाताद​योऽपीति । नेदं क्वचिदृष्टमत आह-अतः एवेति । ज़ात्वपीषदपि । तदारोपेऽपि शोकादिमद्दशरथाद्रितादात्म्यारोपेऽपि । स आह्लादः । तत्र स्वप्नादौ । इहापि करुणरसादावपि । तदेव दुःखमेव । यत्प्रयोज्याः काव्यव्यापारप्रयोज्याः । प्राचीनोक्तदोषमुद्ध-