पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


२५
रसगङ्गाधरः ।

भोगो विषयसंवलनाद्ब्र​ह्मास्वादसविधवर्तीत्युच्यते । एवं च त्रयोऽशाः काव्यस्य । 'अभिधा भावना चैव तद्भोगीकृतिरेव च" इत्याहुः ॥ मतस्यैतस्य पूर्वस्मान्मताद्भावकत्वव्यापारान्तरस्वीकार एव विशेषः । भोगस्तु व्यक्तिः । भोगकृत्त्वं तु व्यञ्जनादविशिष्टम् । अन्या तु सैव सरणिः । नव्यास्तु । “काव्ये नाट्ये च कविना नटेन च प्रकाशितेषु विभावादिषु व्यञ्जनव्यापारेण दुष्यन्तादौ शकुन्तलादिरतौ गृहीतायामनन्तरं च सहृदयतोल्लासितस्य भावनाविशेषरूपस्य दोषस्य महिम्नां कल्पितदुष्यन्तत्वावच्छादिते स्वात्मन्यज्ञानावच्छिन्ने शुक्तिकाशकल इव रजतखण्डः समुत्पद्यमानोऽनिर्वचनीयः साक्षिभास्यशकुन्तलादिविषयकरत्यादिरेव रसः । अयं च कार्यो दोषविशेषस्य । नाश्यश्च । तन्नाशस्य स्वोत्तरभाविना लोकोत्तराह्लादेन भेदाग्रहात्सुखपदव्यपदेश्यो भवति । स्वपूर्वोपस्थितेन रत्यादिना तदग्रहात्तद्गतित्वेनैकत्वाध्यवसानाद्वा व्यङ्ग्यो 'वर्णनीयश्चोच्यते । अवच्छादकं दुष्यन्तत्वमप्यनिर्वचनीयमेव । अवच्छादकत्वं च रत्यादिविशिष्टबोधे विशेष्यतावच्छेदकत्वम् । एतेन दुष्यन्तादिनिष्ठस्य रत्यादेरनास्वाद्यत्वान्न रसत्वम् । स्वनिष्ठस्य तु तस्य शकुन्तलादिभिरतत्संबन्धिभिः कथमभिव्यक्तिः । स्वस्मिन्दुष्यन्ताद्यभेदबुद्धिस्तु बाधबुद्धिपराहतेत्यादिकमपास्तम् । यदपि विभावादीनां साधारण्यं प्राचीनैरुक्तं तदपि काव्येन शकुन्तलादिशब्दैः शकुन्तलात्वादिप्रकारकबोधजनकैः प्रतिपाद्यमानेषु शकुन्तलादिषु दोषविशेषकल्पनं विना दुरुपपादम् । अतोऽवश्यकल्प्ये दोषविशेषे तेनैव स्वात्मनि दुष्यन्ताद्यभेदबुद्धिरपि सूपपादा । नन्वेवमपि रतेरस्तु नाम दुष्यन्त इव सहृदयेऽपि सुखविशेषजनकता, करुणरसादिषु तु स्थायिनः शोकादेर्दुःखजनकतया प्रसिद्धस्य कथमिव सहृ-


शिष्ट इत्यर्थः । भोगश्च सत्त्वगुणोद्रेकात्प्रकाशते य आनन्दस्तत्स्वरूपानन्यालम्बना या संवित्तत्स्वरूपो लौकिकसुखानुभवविलक्षणः । सत्त्वरजस्तमसा गुणानामुद्रेकेण क्रमात्सुखदुःखमोहाः प्रकाश्यन्ते । संविधेति । न तु स एवेति भावः । अंशा व्यापाराः । सैवेति । प्रागुक्त एव मार्ग इत्यर्थः । तन्नाशेति । दोषविशेषनाशेत्यर्थः । स्वपूर्वोपेति । दुष्यन्तादौ गृहीतशकुन्तलारत्यादिनेत्यर्थः । तदग्र​हादिति । भेदाग्रहादित्यर्थः । नन्वेवमपि कथं तद्धर्मलाभोऽत आह-तद्रतीतिएतेनेति । उक्तरीत्या सर्वोपपाद-