पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


२७
रसगङ्गाधरः ।

कत्वम् । तेन रसास्वादस्य काव्यव्यापारजन्यत्वेऽपि न क्षतिः । शकुन्तलादावगम्यात्वज्ञानोत्पादस्तु स्वात्मनि दुष्यन्ताभेदबुद्ध्या प्रतिबध्यते" इत्याहुः । परे तु "व्यञ्जनव्यापारस्यानिर्वचनीयख्यातेश्चानभ्युपगमेऽपि प्रागुक्तदोषमहिम्ना स्वात्मनि दुष्यन्तादितादात्म्यावगाही शकुन्तलादिविषयकरत्यादिमदभेदबोधो मानसः काव्यार्थभावनाजन्मा विलक्षणविषयताशाली रसः । स्वाप्नादिस्तु तोदृशबोधो न काव्यार्थचिन्तनजन्मेति न रसः । तेन तत्र न तादृशाह्लादापत्तिः । एवमपि स्वस्मिन्नविद्यमानस्य रत्यादेरनुभवः कथं नाम स्यात् । मैवम् । नह्ययं लौकिकसाक्षात्कारो रत्यादेः, येनावश्यं विषयसद्भावोऽपेक्षणीयः स्यात् । अपि तु भ्रमः । आस्वादस्य रसविषयकत्वव्यवहारस्तु रत्यादिविषयकत्वालम्बनः" इत्यपि वदन्ति । एतैश्च स्वात्मनि दुष्यन्तत्वधर्मितावच्छेदकशकुन्तलादिविषयकरत्योर्वैशिष्ट्यावगाही, स्वात्मत्वविशिष्टे शकुन्तलादिविषयकरतिविशिष्टदुष्यन्ततादात्म्यावगाही, स्वात्मत्वविशिष्टे दुष्यन्तत्वशकुन्तलाविषयकरत्योर्वैशिष्ट्यावगाही, वा त्रिविधोऽपि बोधो रसपदार्थतयाभ्युपेयः । तत्र रतेर्विशेषणीभूतायाः शब्दाद​प्रतीतत्वाद्व्य​ञ्जनायाश्च तत्प्रत्यायिकाया अनभ्युपगमाच्चेष्टादिलिङ्गकमादौ विशेषणज्ञानार्थमनुमानमभ्युपेयम् । मुख्यतया दुष्यन्तादिगत एव रसो रत्यादिः कमनीयविभावाद्यभिनयप्रदर्शनकोविदे दुष्यन्ताद्यनुकर्तरि नटे समारोप्य साक्षात्क्रियते' इत्येके । मतेऽस्मिन्साक्षात्कारो दुष्यन्तोऽयं शकुन्तलादिविषयकरातिमानित्यादिः प्राग्वद्धर्म्य​शे लौकिक आरोप्यांशे त्वलौकिकः । ‘दुष्यैन्तादिगतो रत्यादिर्न​टे पक्षे दुष्यन्तत्वेन गृहीते विभावादिभिः कृत्रिमैरप्य​कृत्रिमतया गृहीतैर्भिन्ने विषयेऽनुमितिसामग्र्या बलवत्वादनुसीयनमानो रसः' इत्यपरे ।


रति-शकुन्तलादाविति । प्रागुक्तदोषमुद्धरति-स्वाप्नादिस्त्विति । नन्वेवं बोधस्यैव सत्त्वेन कथमास्वादे रसविषयकत्वव्यवहारोऽत आह—आस्वादेति । एतैश्च ‘परे तु' इतिवादिभिश्च । अभ्युपेय इति । विनिगमनाविरहादिति भावः । रस इति । रत्यादिरूपो रस इत्यन्वयः । दुष्यन्ताद्य​नुकर्तरीति । श्रव्य​काव्ये तु काव्यपाठक इति बोध्यम् । मतेऽस्मिन्निति । अस्मिन्मते इत्यादिः । साक्षात्कारस्तत्र लौकिकोऽन्यत्रालौकिक इत्यन्वयः । मतान्तरमाह-दुष्यन्तादीति । कतिपये केचन । त्रिषु विभा-