पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३९६ काव्यमाला।

-

दनं तन्व्या नभसीव निशाकरः' इत्यत्र | अत एवोच्यते-'प्राधान्येन व्यपदेशा भवन्ति' इति । एवं चालंकारान्तरोपस्कारकतया स्थितः श्लेषः कथंकारं स्वगृहस्थ इव श्लेषालंकारव्यपदेशं वोढुमीष्टामिति बाध्यप्राय एव" इत्यप्याहुः । तदित्थं संक्षेपेण श्लेषस्य दिक्प्रदर्शिता । यत्र तु प्रकृताप्रकृतोभयविशेष्ययोरपि श्लिष्टपदोपात्तत्वं स तु ध्वनर्विषय इत्युक्तं स च यथा- 'अविरलविगलद्दानोदकधारासारसिक्तधरणितलः । धनदाग्रमहितमूर्तिर्जयतितरां सार्वभौमोऽयम् ।।' अत्र राजनि प्रस्तुते उदग्दिग्गजोऽप्रस्तुतोऽपि व्यञ्जनमर्यादया प्रतीयते । तत्राप्रस्तुताभिधानं मा प्रसाङ्गीदिति प्रस्तुताप्रस्तुतयोरुपमानोपमेयभावे तात्पर्यं कल्प्यते । इमं च शब्दशक्तिमूलानुरणनरूपं ध्वनिमाहुः । उदाहृतश्च ध्वनिकारैः- 'उन्नतः प्रोल्लसद्धारः कालागुरुमलीमसः । पयोधरभरस्तस्याः कं न चक्रेऽभिलाषिणाम् ॥' मम्मटभट्टैश्च- 'भद्रात्मनो दुरधिरोहतनोर्विशाल- वंशोन्नतेः कृतशिलीमुखसंग्रहस्य । वेति । अत्रोपमया वर्ण्यपुष्टिः । उक्तार्थे प्राचीनसंमतिमाह-अत एवेति । ईदृशव्यवस्थाङ्गीकारादेवेत्यर्थः । नन्वतावता प्रकृते किं सिद्धमत आह-एवं चेति । उक्तव्यवस्थाङ्गीकारे चेत्यर्थः । कथंकारं कथं कृत्वा । व्यतिरेके दृष्टान्तः । बाध्यप्राय एवेत्यप्याहुरिति । सर्वदो माधव इत्यादावलंकारान्तरसंभावनारहिते सावकाशस्य श्लेषस्यालंकारान्तरेण स्वविषये बाध्यत्वमेवेत्यर्थः । प्रतिभामात्रसत्त्वात्प्राय इति । अपिविशेषणसमुच्चायकः । अविरलेति । व्याख्यातमिदं प्राक् । तत्र तत्प्रतीतौ सत्याम् । उन्नत इति । महानुच्चैश्च । प्रोल्लसन्ती धारा यस्य सः । प्रोल्लसन्हारो यत्र स च । कालागुरुवन्मलीमसः श्यामः कालागुरुणा श्यामश्च । मेघसमूहः स्तनभारश्च । भट्टैश्चेति । उदाहृतमित्यस्यानुषङ्गः । भद्रेति । अत्र यच्छब्दः प्राकरणिकराजपरः । तत्पक्षे यस्य प्रकृतस्य राज्ञः करः पाणिनिरन्तरं दानार्थगृहीताम्बुसेकशोभनोऽभूत् । भद्रात्मनः कल्याणरूपस्य । दुरधीति । अनभिभवनीयशरीरस्य । वंशः कुलं तत्रोन्नतिराधिक्यं यस्य । कृतः शिलीमुखानां नाराचानां संग्रहोऽभ्यासदार्ढ्यं येन. । अनुपेति । अवा-