पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। प्रातिभासिकी । प्रत्युत श्लेषस्यैव प्रतिभानमात्रमिति वक्तुं युक्तम् । पूर्णोपमाया विषयस्य सर्वस्यापि त्रिविधश्लेषेणाक्रान्तत्वान्निरवकाशतयास्य सावकाशस्य स्वविषये बाधौचित्यात् । तथा 'समरार्चितोऽप्यमरार्चितः' इत्यादौ श्लेषस्य तैमिरिकन्द्रद्वयवत्प्रतिभानमात्रमेव न त्वलंकारत्वम् । तज्जीवातोर्द्वितीयार्थस्याप्रतिष्ठानात् । विरोधस्य त्वाभासरूपस्याप्यलंकारत्वं न तु श्लेषस्येति स्फुटमेव । तस्मादेवमादौ श्लेषप्रतिभयोत्पाद्यो विरोध एवालंकारः, न तु विरोधप्रतिभयोत्पाद्यः श्लेषः । किं च प्रत्येकं तत्तद्रूपपुरस्कारेण कस्याप्यलंकारस्य नास्ति श्लेषविषये नाप्राप्तत्वमलंकारान्तरपुरस्कारेणेति चेत्, एवं तर्हि बाध्यसामान्यचिन्तया स्वविषये प्राप्तस्य सर्वस्यापि बाधापत्तौ श्लिष्टपरम्परितरूपकस्य श्लिष्टसमासोक्तेश्चोच्छेद एव स्यात् । तस्माच्छ्लेषस्य नापवादकत्वं संकीर्णत्वं तु स्यात् इति । अन्ये तु-"अलंकारा हि प्राधान्येन चमत्काराधायकाः स्वां स्वामाख्यां लभन्ते । त एव परोपकारकतया वर्तमानास्तां त्यजन्ति । यथा- 'रराज भूमौ वदनं मृगाक्ष्या नभोविभागे हरिणाङ्कबिम्बम्' इत्यत्र प्रकृतापकृतात्मनामेकधर्मसंबन्धो दीपकाख्यां भजते, त्यजति च 'राजते व- शेषः । उत्प्रेक्षादावाह-एवमेवेति । प्रत्युत वैपरीत्येन । लुप्तोपमायां सर्वत्र तदसंभवादाह--पूर्णोपमेति । तथा च तद्विषये इदमुच्यते, न तु सर्वत्रेति भावः । त्रिविधेति । प्रकृतत्वादेवेति भावः । तया पूर्णोपमया । अन्यत्राप्येवमित्याह-तथेति । समरे सङ्ग्रामे । तेन वाचितोऽप्यमरैर्देवैरर्चितः । न मा उपमा यस्य तादृशो राः धनं येषां तैरर्चितः । अनुपमधनार्चितश्चेत्यर्थः । तैमिरिकेति । तिमिराख्यनेत्ररोगकृतेत्यर्थः । अप्रतिष्ठानादिति । सरलतयाप्रतीतेरित्यर्थः । नन्वाभासत्वे श्लेषवद्विरोधस्याप्यलंकारत्वं न स्यादत आह-विरोधस्य त्विति । अपिर्वास्तवतत्समुच्चायकः । नन्वेवं तर्हि समरार्चीत्यादौ कोऽलंकारोऽत आह-तस्मादिति । उक्तहेतोरित्यर्थः । एवमादौ समरार्चीत्यादौ । एवं सावकाशत्वेन न्यायाविषयत्वमुक्त्वा सामान्यचिन्ताप- क्षेऽसंभवाद्विशेषचिन्तापक्षेऽतिव्याप्तेश्च न न्यायविषय इत्याह-किं चेति । तत्तद्रूपेति । उपमात्वरूपकत्वादित्यर्थः। विषये तद्विषयत्वावच्छिन्ने । एवं च बाध्यविशेषचिन्तापक्षे तदसंभवः । सामान्यचिन्तापक्षे आह-अलमिति । ननु मास्त्वस्य तदपवादत्वं परंतु तदग्रिमयोः पक्षयोः कोऽभिमतोऽत आह-संकीर्णत्वमिति । तृतीयपक्षाशयेनाह-अन्ये त्विति । हि यतः । अत एव तेषामेव तदाख्यत्वादेव । तां स्वीयाख्याम् । नभोविभागे नभःप्रदेशे । एकधर्मेति । राजनरूपेत्यर्थः । नभसी-