पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। इत्यादि काव्यप्रकाशोक्तौ विविक्तो विषय इति वाच्यम् । रूपकस्यैवात्र स्फुटत्वात् । श्लेषोपस्थापितपातालाद्यर्थस्याभेदारोपमन्तरेण लोकत्रयात्मकत्वस्य दुरुपपादत्वात् । कथं तर्हि 'नदीनां संपदं बिभ्रद्राजायं सागरो यथा' इत्यादावुपमायाः प्रत्ययः, कथं वा तत्रैव यथाशब्दस्थाने किमुशब्ददाने उत्प्रेक्षायाः, अपर इतिकृते च रूपकस्येति चेत् न । अत्र हि उपमादीनां प्रतिभानमात्रं न तु वास्तवी स्थितिः । नहि श्वैत्येन शुक्तौ रजतत्वं प्रतीयमानमपि वस्तुतोऽस्ति । तस्मादुपमादिप्रतिभोत्पत्तिहेतुः श्लेष एव स्वविषये सर्वत्रालंकारः" इति । एतच्चापरे न क्षमन्ते । तथा हि यत्तावदुच्यते येन नाप्राप्त इत्यादि तत्र प्रागुदाहृते 'पद्माख्यं तत्किमपि ललित' इत्यस्मत्पद्ये, 'सर्वदोमाधवः पातु योगङ्गां समदीधरत्' इत्यादिपरकीयपद्ये च श्लेषातिरिक्तः कोऽलंकारः । तुल्ययोगिता तु सादृश्यप्रत्ययनियता कथमत्र शक्यते वक्तुम् । नहि लक्ष्मीकमलयोर्हरिहरयोर्वा प्रकृते सादृश्यं प्रतिपिपादयिषितम् । नापि चात्रैकश्रुत्यार्थद्वयोपादानं विनान्यत्किचिच्चमत्कारजनकं येनालंकारान्तरमभ्युपगच्छेम । एकश्रुत्यार्थद्वयोपादानं तु श्लेष एव । एवं च सावकाशत्वाच्छ्लेषस्यालंकारान्तरापवादकत्वं न युक्तम् । अत एवोपमादीनां प्रतिभानमात्रमिति यदुक्तं तदपि न संगतम् । गुणक्रियादेरिव शब्दमात्रस्यापि समानधर्मत्वेनोपमायां तावद्वाधकाभावात् । एवमेवालंकारान्तरस्यापि श्लेषविषये पारमार्थिक्येव सत्ता न स्वर्गः चमरसंबन्धिपवनाश्रयश्च । अभेदेति । प्रथमोपस्थितार्थे इति भावः । तस्माच्छ्लेषस्य सर्वबाधकत्वं सिद्धम् । तत्राक्षिपति-कथं तर्हीति । दीनां स्वल्पां संपदं न बिभ्रत्, नदीनां गङ्गादीनां संपदं बिभ्रच्च । तत्रैव प्राचोक्तनदीनामित्यत्रैव । प्रत्ययपदस्याग्रे उभयत्रानुषङ्गः । प्रतिभानेति । तथ च प्रातिभासिकत्वं तेषामिति भावः । तदेवोपपादयति-नहीति । उद्भाटाचार्योक्तं खण्डयति-एतच्चेति । तत्रेत्यस्य उच्यत इति शेषः । एवमग्रे सर्वत्र बोध्यम् । सर्वदा उमाधवः । सर्वप्रदो माधवश्च । गङ्गां अगं गां च । वस्तुत: सादृश्यसत्त्वेऽप्याह-प्रत्ययेति । ननु तत्प्रतीतिरपि कुतो नात आह-नहीति । नन्वलंकारान्तरमस्त्वत आह-नापीति । नन्वेकश्रुत्यार्थद्वयोपादानेऽप्यन्यालंकारः कुतो नात आह-एकेति । उपसंहरति-एवं चेति । अलंकारान्तराभावे चेत्यर्थः । क्रियादेरिवेति । तदुपमानधर्मवदित्यर्थः । बाधकामावादिति । बाधकताबीजस्य निरवकाशत्वस्याभावादित्यर्थः । श्लेषस्येति