पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। अत्र प्रकृताप्रकृतयोर्भीष्ममाघयोरश्लिष्टत्वाद्विशेषणानां च श्लिष्टत्वा- द्भवति तृतीयो भेदः । परं तूपमया संकीर्णः । यदि च 'माघो महात्माजनि हन्त भीष्मः' इत्यप्रकृतांशमपि श्लेषग्रस्तं कृत्वा रूपकं क्रियते, तथापि प्रकृतविशेष्यस्य माघस्याश्लिष्टत्वादखण्डित एव श्लेषः । न चात्र समासोक्तिरिति भ्रमितव्यम् । अप्रकृतधर्मिणोऽपि शब्दवाच्यत्वात् । यत्र त्वप्रकृतव्यवहार एव शब्दशक्तिं सहेतापि, न त्वप्रकृतधर्मी तत्र समासोक्तेरिष्टेः। अत्र विचार्यते--अयं चालंकारः प्रायेणालंकारान्तरस्य विषयमभि- निविशते तत्र किमस्य बाधकत्वं स्यादाहोस्वित्संकीर्णत्वमुताहो बाध्यत्वमिति । अत्राहुरुद्भटाचार्याः-"येन नाप्राप्ते य आरभ्यते स तस्य बाधकः' इति न्यायेनालंकारान्तरविषय एवायमारभ्यमाणोऽलंकारान्तरं बाधते । न चास्य विविक्तः कश्चिदस्ति विषयो यत्र सावकाशो नान्यं बाधेत । तथाहि अप्रकृतमात्रयोः प्रकृतमात्रयोर्वा तावत्तुल्ययोगितैव जागर्ति । प्रकृताप्रकृतयोस्तु दीपकम् । तदनुमोदिता उपमादयश्च । न च 'देव त्वमेव पातालमाशानां त्वं निबन्धनम् । त्वं चामरमरुभूमिरेको लोकत्रयात्मकः ॥' मानी अभिमानी । अत्यन्तं हिमसंहत्या परिदीर्णानि गात्राणि येन स च । फाल्गुनोऽर्जुनो मासश्च । अत्यन्तमाकाङ्क्षितः कृष्णस्य मार्गो येन । अत्यन्तमाकाङ्क्षितः कृष्णवर्त्माग्निर्यस्मिन्स च । भीष्मो गाङ्गेयः । माघो मासः । संकीर्ण इति । तुल्यपदोक्तेरिति भावः । पूर्वं भीष्मस्योद्देश्यत्वं तत्तुल्यत्वस्य विधेयत्वम्, अधुना तद्वैपरीत्येनाह-यदीति । श्लेषेति । गाङ्गेयवद्भयानकस्यापि प्रतीतेरिति भावः । अखण्डित एव श्लेष इति । शब्दशक्तिमूलध्वनिना न खण्डित इत्यर्थः । क्व तर्हि समासोक्तिरत आह-यत्रेति । अपिः संभावनायाम् । अत्र श्लेषविषये । अत एवाह-अयं चेति । श्लेष इत्यर्थः । विविक्तविषयस्यापि वक्ष्यमाणत्वादाह-प्रायेणेति । अभीति । व्यानोतीत्यर्थः । उताहो अथवा । येनेति । प्राप्त इति भावे क्तः । येनेति कर्तरि तृतीया । नञ्द्वयस्य प्रकृतदार्ढ्यबोधकत्वम् । तथा च 'यत्कर्तृकस्य प्राप्तौ यत्रारभ्यमाणः स तस्य बाधक इत्यर्थः । तदप्राप्तियोग्येऽचारितार्थ्यं हि बाधकताबीजम् । एवव्यवच्छेद्यं स्पष्टार्थमाह- -न चेति । नहीत्यर्थः । तावदादौ । अलमत्यन्तम् । पाता रक्षिता पाता- ललोकश्च । आशानां मनोरथानां दिशां च । अमराणां देवानां मरुद्गणानां च भूमिः