पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

३९२ काव्यमाला। अयमेवाभङ्गात्मको यथा- 'करकलितचक्रघटनो नित्यं पीताम्बरस्तमोरातिः । निजसेविजाड्यनाशनचतुरो हरिरस्तु भूतये भवताम् ॥' विशेष्ययोरश्लिष्टत्वे यथा 'जाड्यहरणो विष्णुः सूर्यश्च वः पातु' इति तस्यैव शेषे कृते । अर्थश्लेषो यथा- 'अर्जुनस्य गुरुर्मायामनुजः परमः पुमान् । गुञ्जापुञ्जधरः पायादपायादिह कोऽपि वः ॥' एवमेते त्रयोऽपि प्रकृतविषया एव भेदाः। 'हरिकरसङ्गादधिकं रमणीयाप्यतुलरागसंवलिता । सुन्दरि तवाननाग्रे कमलामा विगलितप्रतिभा ॥ अयमप्रकृतमात्रविषयः । प्रकृतस्याननस्य श्लेषाविषयत्वात् । कमलाभेति विशेष्यांशे अधिकमिति विशेषणांशे च सभङ्गः, अन्यत्राभङ्गः । अप्रकृतयोर्विशेष्ययोरश्लिष्टत्वे यथात्रैव 'कमलायाः कमलस्य च शोभा गलिता तवाननस्याग्रे' इत्युत्तरार्धनिर्माणे । प्रकृताप्रकृतोभयविषयो यथा- 'अलं हि मानी परिदीर्णगात्रः समापितः फाल्गुनसंगमेन । अत्यन्तमाकाङ्क्षितकृष्णवर्त्मा भीष्मो महात्माजनि माघतुल्यः ॥' करकलितेत्यादि । करो हस्तः किरणाश्च । चक्रं सुदर्शनं कालचक्रं च । अम्बरमाकाशो वस्त्रं च । तमो राहुरन्धकारश्च । जाड्यमज्ञानं मूर्खत्वं च । हरिः सूर्यो विष्णुश्व । अयं प्रकृताप्रकृतोभयाश्रितः । जाड्येति । निजसेवीत्यस्येत्यादिः । समर्थ इत्यग्रे शेषो बोध्यः । शुद्धश्लेषं तृतीयमुदाहरति-अर्थेति । अर्जुनस्य गुरुरित्यत्र च गुरुपदं श्लिष्टं पर्यायपरिवृत्तिसहं च । शिक्षकादिपदोपादानस्यापि संभवादिति बोध्यम् । एवं च गुरुरुपदेष्टा बृहस्पतिश्च । उपसंहरति-एवमिति । अप्रकृतविषयमुदाहरति-हरीति । हरिर्विष्णुः सूर्यश्च । करो हस्तः किरणश्च । अधिकमतिशयेन । के इत्यधिकम् । अव्ययीभावः । जले इत्यर्थश्च । सङ्गादिति । पञ्चम्यन्तमतुलरागेत्यत्राप्यन्वेति । कमलाभा कमलकान्तिर्लक्ष्मीकान्तिश्च । विगलितप्रतिभा निःसारा । अन्यत्र हरिकरादौ । अत्रैव उक्तपद्य एव । अलमिति । अलमत्यन्तम् । हीति निश्चयेन ।