पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

रसगङ्गाधरः। अनेकशब्दप्रतिभानद्वारा एकशब्दप्रतिभानद्वारा चेति त्रिविधः श्लेषः । तत्राद्यः सभङ्गो द्वितीयो ह्यभङ्ग इति वदन्ति । तृतीयस्तु शुद्धः । एवं त्रिविधोऽप्ययं प्रकृतमात्राप्रकृतमात्रप्रकृताप्रकृतोभयाश्रितत्वेन पुनस्त्रिविधः । अत्राद्ये भेदे द्वितीये च विशेष्यस्य श्लिष्टतायां कामचारः । तृतीयभेदे तु विशेषणवाचकस्यैव श्लिष्टत्वं न विशेष्यवाचकस्य । तथा- त्वे तु शब्दशक्तिमूलध्वनेरुच्छेद एव स्यात् । विशेषणमात्रक्ष्लिष्टतायामपि प्रकृताप्रकृतधर्मिणोरुपादान एव श्लेषः । प्रकृतधर्मिमात्रस्योपादाने तु समासोक्तेरेव विषयः । तदित्यं प्रकृतमात्रविशेष्यकानेकार्थविशेषणं यत्र स एकः । एवमप्रकृतेत्यादिर्द्वितीयः । पृथगुपात्तप्रकृताप्रकृतोभयविशेष्यकनानार्थविशेषणं तृतीयः । एतदन्यतमत्वं च लक्षणं पर्यवसितम् । क्रमणोदाहरणानि- संभूत्यर्थ सकलजगतो विष्णुनाभिप्रपन्नं यन्नालं स त्रिभुवनगुरुर्वेदनाथो विरिञ्चिः। ध्येयं धन्यालिभिरतितरां स्वप्रकाशस्वरूपं पद्माख्यं तत्किमपि ललितं वस्तु वस्तुष्टयेऽस्तु ॥' अत्राशी:प्रकरणे तुष्टिजननसमर्थत्वेन लक्ष्मीभगवन्नाभिकमलयोरुभयोरपि प्रकृतत्वात्प्रकृतमात्राश्रितोऽयमेकया श्रुत्या पदद्वयप्रतिभानद्वारा भिन्नधर्मपुरस्कारेणानेकार्थप्रतिपादनात्सभङ्गः । विशेष्ययोरक्ष्लिष्टत्वेऽप्ययं संभवति । यथात्रैव 'पायादाद्यं कमलमथवा योगमायास्वरूपम्' इति तुरीयचरणनिर्माणे । आद्ये प्रकृतमात्राश्रिते । द्वितीये अप्रकृतमात्राश्रिते । तृतीयभेदे उभयाश्रिते । तथात्वेत्विति । विशेष्यस्यापि श्लिष्टत्वे हीत्यर्थः । अत्र विशेष्यस्य श्लिष्टत्वेऽपि श्लेषाङ्गीकारे शब्दशक्तिमूलध्वन्युच्छेदापत्तिरित्याखण्डलार्थः । तृतीये विशेषमाह-विशेषणेति । विशेषणस्यैव श्लिष्टतायामित्यर्थः । भेदानुपसंहरति-तदित्थमिति । अनुगतं लक्षणमाह-एतदिति । संभूत्यर्थमिति । संभूतिरुत्पत्तिः सम्यगैश्वर्य च । विष्णुनाभिं प्राप्तं विष्णुना अभिप्रपन्नं प्राप्तं च । स तादृशो ब्रह्मापि यस्य कमलस्य नालं नालदण्डः यस्मादलं समर्थो न च । धन्यैर्भ्रमरैर्धनिकपङ्क्त्तिभिश्च । पद्माख्यं कमलसंज्ञक कमलासंज्ञकं च । अयं प्रकृतमात्राश्रितः । एवमग्रेऽपि । आद्यं भगवन्नाभिसंबन्धि ।