पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। भूवासिगणनायां पुनर्गण्यते तथेहापीति न कश्चिद्दोषः । अन्यथा प्राचां काव्यलिङ्गमप्यलंकारो न स्यात्। तस्यापि निर्हेतुरूपदोषाभावात्मकत्वात् । 'द्विजराज कलाधार विश्वतापनिवारण । कथं मामबलां क्रूरैः करैर्दहसि निर्दय ॥' इत्यादौ विशेषणाधिक्याब्यङ्गयाधिक्ये चमत्काराधिक्यम् । अयं च वाच्यसिद्ध्यङ्गव्यङ्गयगर्भत्वेनोपस्कारकव्यङ्गयगर्भत्वेन द्विधाभवन् व्यङ्गयस्य वाच्यायमानत्वतद्विपर्ययाभ्यां चतुर्धा । आद्यो यथा- 'विहाय संसारमहामरुस्थलीमलीकदेहादिमिलन्मरीचिकाम् । कृपातरङ्गाकुल मन्मनोमृगो विगाढुमीश त्वयि गाढमीहते ॥ अत्र गाहनसिद्ध्यङ्ग कृपेत्यादेः समुद्ररूपं व्यङ्गयं वाच्यायमानम् । द्वितीयो यथा- 'खर्वीकृतेन्द्रगर्व त्वरया चक्रेण भिन्ननक्रमुख । लीलात्तकोलमूर्ते मामुद्धर्तुं कथं न शक्तोऽसि ॥ अत्र गोवर्धनगजेन्द्रवसुंधराणामुद्धारो वाच्यतास्पर्शशून्य एवोपालम्भसिद्ध्यङ्गम् । तृतीयस्तु 'धृतशार्झ्गदारिनन्दक' इत्यत्र, चतुर्थः 'वीचिक्षालितकालियाहितपदे' इत्यत्र च बोध्यः । इति रसगङ्गाधरे परिकरालंकारप्रकरणम् । अथ श्लेषः- - श्रुत्यैकयानेकार्थप्रतिपादनं श्लेषः । तञ्च द्वेधा । अनेकधर्मपुरस्कारेणैकधर्मपुरस्कारेण च । आद्यं द्वेधा । विपक्षे बाधकमप्याह-अन्यथेति । एवं सत्यपि तस्य तत्त्वानङ्गीकार इत्यर्थः । अत एवापिः प्रयुक्तः । अनेकविशेषणानां साभिप्रायत्वे उदाहरति-द्विजेति । चन्द्रं प्रत्युक्तिरियम् । परिकरस्य भेदमाह-अयं चेति । कोलेति । वराहेत्यर्थः । वाच्यतास्पर्शेति । वाच्यायमानतेत्यर्थः । अत एव स्पर्शपदसार्थक्यम् । तद्गमकाभावात्तस्य गूढत्वमिति भावः ।। इति रसगङ्गाधरमर्मप्रकाशे परिकरप्रकरणम् ।। श्लेषं लक्षयति-अथेति । तत्र आद्यभेदयोमध्ये । अत्र एषां भेदानां मध्ये ।