पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। ३८९ 'अनापदि विना मार्गमनिशायामनातुरः । मृत्तिकाशौचहीनस्तु नरो भवति किल्बिषी ।' इत्यत्र पर्युदस्तेऽप्यापत्कालादौ यथा केनचिन्मृत्तिकाशौचादिक्रियमाणं न केनापि प्रतिषिध्यते कर्तुः सामर्थ्यगमकं च भवति तथा प्रकृतेऽपि दोषनिषेधविधौ पर्युदस्तेऽपि यमकादौ पुष्टतारूपदोषाभावः कविना संपाद्यमानो न दोषाय भविष्यति, अपि तु रसपोषायैवेति । यदि च यमकेऽनुभवं विच्छित्तिविशेषे प्रमाणं ब्रूषे ब्रूहि तदान्यत्रापि तमेव प्रमाणमिति यमकपर्यन्तानुधावनं निरर्थकमेव । तस्मात्पुष्टार्थतारूपेण दोषाभावेन परिकरालंकारस्य विषयविभागो दुःशक इति प्राप्ते ब्रूमः । सुन्दरत्वे सत्युपस्कारकत्वमलंकारत्वम् । चमत्कारापकर्षकाभावत्वं च दोषाभावत्वम् । तदेतद्धर्मद्वयं विविक्तविषयं यदि दैवादेकस्मिन्विषयविशेषे समाविशेत्तदा का हानिः स्यात् । उपधेयसंकरेऽप्युपाध्यसंकरात् । यथा ब्राह्मणस्य मूर्खत्वं दोषः, विद्या तु दोषाभावश्च भवति गुणश्च, तथेहाप्युपपत्तिः । न च दोषाभावतया प्राप्तस्यापि परिकरस्य किमित्यलंकारेषु गणनागौरवमिति वाच्यम् । उभयात्मकत्वेनेतरवैलक्षण्यज्ञापनार्थतया गणनोपपत्तेः । यथा गुणीभूतव्यङ्गयभेदतया संगृहीतापि समासोक्तिरलंकारगणनायां पुनर्गण्यते । यथा वा प्रासादवासिषु गणितोऽप्युभयवासी. भावश्चमत्कारश्चेत्यलंकारत्वम् । किं च यथा तत्र दोषाभावस्याङ्गवैकल्येऽपि सिद्धे साङ्गतत्करणं फलातिशयायैव एवं दोषाभावस्य विशेषणानुपादानेऽपि संभवेन साभिप्रायैकविशेषणनिबन्धनोऽपि चमत्कारो दुरुपह्रव इति बोध्यम् । तदेतदपि चैकपदार्थहेतुकमित्यादिना ग्रन्थेन कुवलयानन्दे स्फुटमिति दिक् । इत्यत्र मृत्तिकाशौचाभावनिषेधविधौ । पर्युदस्तेऽपि दोषाभाववत्तया प्रतिपादितेऽपि । सामर्थ्यावगमं च सामर्थ्यगमकं च । क्वचित्तथैव पाठः । दोषनिषेधेति । अदोषं काव्यमित्यत्र । पुष्टतेति । तद्रूपो यो दोषाभाव इत्यर्थः । उपसंहरति-तस्मादिति । विविक्तेति । परिकरातिरिक्ते सामानाधिकरण्याभावादिति भावः । एकस्मिन् परिकरे । यथेति । विद्यायां गुणत्वदोषाभावत्वयोः । समावेशेऽपि तयोरसांकर्यं यथेत्यर्थः । उभयेति । अलंकारदोषाभावरूपत्वेनेत्यर्थः । इतरेति । परिकरान्यालंकारत इत्यर्थः । अस्याग्रेऽप्यन्वयः । अत एवाह-यथेति । महाभाष्यकारोक्तं दृष्टान्तमाह-प्रासादेति । ऊर्ध्वदेशेत्यर्थः ।