पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। यत्तु कुवलयानन्दकार आह-"श्लेषयमकादिष्वपुष्टार्थदोषाभावेन तत्रैकस्यापि विशेषणस्य साभिप्रायस्य विन्यासे विच्छित्तिविशेषाभावात्परिकरत्वोपपत्तिः । यथा-'क्षितिभृतैव सदैवतका वयं वनवतानवता किमहिद्गुहा' इति गोवर्धनपर्वतविषयके नन्दादीन्प्रति भगवद्वाक्ये" इति । तदप्यसत् । यो हीममलंकारं दोषाभावान्तःपातितयालंकारमध्याद्वहि- र्भावयति स किं त्वदुक्तश्लेषयमकादिशब्दचित्रातिरिक्तस्थले साभिप्रायविशेषणेषु विच्छित्तिविशेषं मन्यते न वा । आद्ये दोषाभावमात्रेण विच्छित्तिविशेषस्यालंकारप्रयोज्यस्यालंकारमन्तरेणानिष्पत्तेः सिद्धं सर्वत्र परिकरस्यालंकारत्वम् । द्वितीये अन्यत्रेव यमकादिप्वपि विच्छित्तिविशेषो नास्तीति तेन सुवचत्वात् । तथा हि- तैव साफल्येन श्लेषादेस्तदपवादत्वादिति भावः । विशेषाभावादिति । तदापत्तेरित्यर्थः । जायमानतदर्थ तद्विन्यासस्यावश्यकत्वं तत्रेतीति शेषः। परिकरेति । परिकरस्यालंकारत्वोपपत्तिरित्यर्थः । उद्भटालंकारसंपत्त्या सहृदयवैमुख्यरूपदूषकताबीजाभावादिति भावः। 'साभिप्रायस्य विन्यासे विच्छित्तिविशेषसद्भावात्' इति क्वचित्पाठः । क्षितीति । यमकोदाहरणमिदम् । प्रशस्तवनयुक्तेन गोवर्धनेन । अरक्षकेणेन्द्रणेत्यर्थः । 'अहित्रासुरे सर्पे' इति विश्वः । यमकादीति । तद्रूपशब्दचित्रेत्यर्थः । सर्वत्र श्लेषादौ तदन्यत्र च । तेन सुवचत्वादिति । अत्रेदं चिन्त्यम्-दोषाभावमध्ये एनमन्तर्भावयता एकविशेषणे चमत्कारविशेषस्यानङ्गीकारात्त्वदुदाहरणासंगतिः । यदि त्वनुभवबलात्तत्तदोषाभावकृतचमत्कारादप्यधिकचमत्कारोऽस्ति . वाद्यनङ्गीकारस्त्वप्रयोजक इत्युच्यते तर्हि समं प्रकृतेऽपि । किं च अपि तु पोषायेति वदता भवतापि श्लेषयमकादिषु विशेषणस्य चमत्कारिताभ्युपेतैव । चमत्कारातिशयजनकतारूपाया एव पुष्टेः काव्ये स्वीकारात् । यदि तु विवक्षितार्थबोध एव पोषः विवक्षितार्थबाधप्रयोजकानुपादानत्वं च पुष्टत्वं तथाप्यापत्कालेऽक्रियमाणं मृत्तिकाशौचादि यथा न दोषाय नापि लोकनिन्दाय, क्रियमाणं चाधिकस्तुतयेऽधिकफलाय च भवति तथा यमकादिषु पुष्टत्वमक्रियमाणं न दोषाय, क्रियमाणं त्वधिकचमत्कारायेति वक्तुं शक्यम् । न च कवेः स्तुतये भवतु, न चमत्कारायेति वाच्यम् । नित्ये फलस्यापि स्वीकारेण तदतिशयस्य तेन जननवदुपपत्तेः । इह तु फलं चमत्कार एव । अयि लावण्येत्यत्र तु पुष्टत्वमक्रियमाणं दोषाय, क्रियमाणं तु विवक्षितार्थाबाधरूपपोषायैव नाधिकचमत्काराय । यथानापद्यक्रियमाणं मृच्छौचादि दोषाय, क्रियमाणं तु नाधिकफलायेत्यतो यमकपर्यन्तानुधावनम् । वस्तुतः संध्याद्यकरणस्य दोषत्वेऽपि तदभावो न दोषाभावमात्रम्, अपि तु फलायापि, एवं यमकाद्यतिरिक्तेऽपि साभिप्रायैकविशेषणोपादाने दोषत्वा-