पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। यस्यानुपप्लुतगतेः परवारणस्य दानाम्बुसेकसुभगः सततं करोऽभूत् ॥" कुवलयानन्दकारस्तु-"यदत्र प्रकृताप्रकृतश्लेषोदाहरणे शब्दशक्ति- मूलध्वनिमिच्छन्ति प्राश्चस्तत्तु प्रकृताप्रकृताभिधानमूलस्योपमादेरलंकारस्य व्यङ्ग्यत्वाभिप्रायं न त्वप्रकृतार्थस्यैव व्यङ्ग्यत्वाभिप्रायम् । अप्रकृतार्थस्यापि शक्या प्रतिपाद्यस्याभिधेयत्वेन व्यक्त्यनपेक्षत्वात् । यद्यपि प्रकृतार्थे प्रकरणवशाज्झटिति बुद्धिस्थिते सत्येव पश्चान्नृपतितद्वाह्यधनादिवाचिनां राजकरादिपदानामन्योन्यसंनिधानबलात्तद्विषयशक्त्यन्तरोन्मे- षपूर्वकमप्रकृतार्थः स्फुरेत् । नैतावता तस्य व्यङ्ग्यत्वम् । शक्त्या प्रतिपाद्यमाने सर्वथैव व्यक्त्यनपेक्षणात् । पर्यवसिते प्रकृतार्थाभिधाने स्फुरति चेत्कामं गूढ श्लेषोऽस्तु । अस्ति चान्यत्रापि गूढः श्लेषः। यथा- धितज्ञानस्य अवारितगतेर्वा अदुष्टहितकर्तुम् । परेति । शत्रुनिवारकस्य । गजपक्षे भद्रजातीयस्य । अत्युच्चत्वादुःखाधिरोह्यशरीरस्य । विशाला वंशस्य पृष्ठदण्डस्योन्नतिर्यस्य । कृतभ्रमरसंग्रहस्य । अनुद्धतधीरगमनस्य । परस्योत्कृष्टस्य वारणस्य गजस्य । करः शुण्डादण्डः । मदजलसेकसुभगोऽभूदित्यर्थः । अत्र राजा वाच्यो हस्ती प्रतीयमानः । ननु प्रकरणेनाभिधाया नियमनादप्रकृतार्थस्य व्यङ्गयत्वमेवेति कथं श्लेषोऽत आह-यदत्रेति । मूलस्य मूलकस्य । अलंकारस्येति । इदमुपलक्षणं वस्तुध्वनेरपि । शनिरशनिरित्यादौ शनिविरुद्धरूपेऽप्रस्तुतेऽशनिशब्देनाभिधया प्रतीयमानेऽपि तन्मूलकस्य विरुद्धावपि त्वदनुवर्तनमेकं कार्य कुरुत इति वस्तुध्वनेरशनिशब्दशक्तिमूलस्य संभवात् । एतेन शब्दशक्तिमूलवस्तुध्वनेरुच्छेद इत्यपास्तम् । अत एव विवक्षितार्थमाह-न त्विति । अभिधेयत्वेति । वाच्यत्वावश्यकत्वेनेत्यर्थः । 'अभिधाया अवश्यंभावन' इति क्वचित्पाठः। झटितीति । एवं च प्रकरणादीनां प्राथमिकबोधत्वमेव प्रतिबध्यतावच्छेदकमिति भावः । नृपतितद्बाह्येति । नृपतिनृपतिग्राह्येत्यर्थः । यथासंख्येनास्य राजकरयोरन्वयः । 'असावुदयमारूढः कान्तिमान्रक्तमण्डलः । राजा हरति सर्वस्वं मृदुभिर्नूतनैः करैः ॥' इत्यादाविति भावः । अन्योन्यसंनिधानेति । परस्परार्थसंबन्ध्यर्थवाचकशब्दसमभिव्याहाररूपशब्दान्तरसंनिधीत्यर्थः । तद्विषयेति । प्रकृतार्थविषयेत्यर्थः । नैतावतेत्यस्य तथापीत्यादिः । एतावता पूर्वीपरभावमात्रेण तस्य अप्रकृतार्थस्य पश्चादिति अप्रकृतार्थ इत्यनुषज्यते । काममिति । अप्रकृतस्य द्वितीयस्य शीघ्रप्रत्ययाद्गूढत्वम् । तदसंभवशङ्कां निरस्यति-अस्ति चेति । चो ह्यर्थे ।