पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। शास्त्रीये लौकिकस्य यथा- 'कृत्वा सूत्रैः सुगूढार्थैः प्रकृतेः प्रत्ययं परम् । आगमान्भावयन्भाति वैयाकरणपुंगवः ।। अत्र राजव्यवहारस्य । एवं शास्त्रान्तरव्यवहारेऽपि बोध्यम् । इयं चालंकारान्तरेषु बहुष्वानुगुण्येन स्थिता । यथा- 'स्थितेऽपि सूर्ये पद्मिन्यो वर्तन्ते मधुपैः सह । अस्तं गते तु सुतरां स्त्रीणां कः प्रत्ययो भुवि ।' अत्र समर्थ्यत्वेन स्थितार्थान्तरन्यासानुगुण्यमाधत्ते । 'उत्तमानामपि स्त्रीणां विश्वासो नैव विद्यते । राजप्रियाः कैरविण्यो रमन्ते मधुपैः सह ।' इह समर्थकत्वेन.। 'व्यागुञ्जन्मधुकरपुञ्जमञ्जुगीतामाकर्ण्य स्तुतिमुदयपातिरेकात् । आभूमीतलनतकंधराणि मन्येऽरण्येऽस्मिन्नवनिरुहां कुटुम्बकानि ॥' अत्र हि परकृतनिजस्तुत्याकर्णनकंधरानमनादि विशेषणसाम्योत्थापितया समासोक्त्या सज्जनव्यवहाराभिन्नतया स्थित एव तरुव्यवहारे भूशास्वासंबन्धाभेदाध्यवसितमस्तकमूलनमननिमित्तोत्थापिता त्रपारूपहेतूत्प्रेक्षा संभवति । अन्यथा कितवकृतग्रीवानमनस्यापि त्रपोत्थापकतापत्तेः । इत्युत्प्रेक्षानुगुणा समासोक्तिः । एवम्- 'राज्याभिषेकमाज्ञाय शम्बरासुरवैरिणः । सुधाभिर्जगतीमध्यं लिम्पतीव सुधाकरः ॥' इत्यत्रापि स्वामिसेवकव्यवहारमूला सुधालेपनोत्प्रेक्षा । अमुयैव दिशा अचेतनव्यवहारे प्रकृते चेतनव्यवहारसंबन्धिस्वरूपहेतुफलोत्प्रेक्षायां चेतनव्यवहारे प्रकृते चाचेतनव्यवहारसंबन्धिस्वरूपहेतुफलोत्प्रेक्षायां च समासोक्तिरेव मूलम् । इति रसगङ्गाधरे समासोक्तिप्रकरणम् । र्थीभावापन्नार्थबोधकतारूपमित्यर्थः । प्रकृतेः प्रातिपदिकादितः अविद्यायाश्च । परमग्रिमं भिन्नं च । प्रत्ययं तत्संज्ञकं ज्ञानरूपं च कृत्वा । आगमान् तत्संज्ञकान् उपनिषदनश्चा- द्यर्थः (१) । राजपक्षे त्वर्थ ऊह्यः । प्रत्ययो विश्वासः । राजप्रियाश्चन्द्रप्रियाः । दिशा रीत्या । स्वरूपहेतुफलानां त्रयाणामुत्प्रेक्षायामित्यर्थः । एवमग्रेऽपि ॥ इति रसगङ्गाधरमर्म- प्रकाशे समासोक्तिप्रकरणम् ।।