पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला । - अथ परिकरः- विशेषणानां साभिप्रायत्वं परिकरः। तच्च प्रकृतार्थोपपादकचमत्कारिव्यङ्ग्यकत्वम् । अत एवास्य हेत्वलंकाराद्वैलक्षण्यम् । तत्र व्यङ्गयस्यानावश्यकत्वात् । उपपादकता चोपस्कारकनिष्पादकसाधारणी । व्यङ्गयस्य गुणत्वाच्च न ध्वनित्वं व्यपदिश्यते । यथा- 'मन्त्रैर्मीलितमौषधैर्मुकुलितं त्रस्तं सुराणां गणैः स्रस्तं सान्द्रसुधारसैर्विदलितं गारुत्मतग्रावभिः । वीचिक्षालितकालियाहितपदे स्वर्लोककल्लोलिनि त्वं तापं तिरयाधुना भवभयव्यालावलीढात्मनः ॥' अत्रात्मनो भागीरथीकर्तृकस्य भवव्यालदंशजनिततापदूरीकरणस्याशंसनं हि वाक्यार्थः । तत्र भगवत्या भवतापनाशिकात्वस्य सुप्रसिद्धत्वात्परिणामेन भवरूपविषयतादात्म्यापत्त्या व्यालजनितसंतापनाशिकात्वं तावत्सूपपादमेव । 'स्थास्नुजङ्गमसंभूतविषहव्यै नमो नमः' इत्याद्यागमबलाच्च विषयतादात्म्यं विनापि शुद्धव्यालजनितसंतापनाशिकात्वमपि स्वभावसिद्धमेव । एवं वाच्यार्थस्य सत्यामपि निष्पत्तौ सौन्दर्यविशेषाधानाय साकूतं विशेषणं वीचिक्षालितेत्यादि । अत्र नामान्तरस्य सत्त्वेऽपि कालियाहितशब्दोपादानसामर्थ्याद्भगवतश्चरणे फणागणनृत्यनिःसारीकतकालिये लोकोत्तरविषहरणशक्तिरुत्पत्तिसिद्धैवासीत् । सा च तयोर्वीचिभिः परिकरं लक्षयति-विशेषणेति । तच्च साभिप्रायत्वं च । अत एवेत्यस्यार्थमाह- तति । हेत्वलंकार इत्यर्थः । ध्वनावतिव्याप्तिवारणाय प्रकृतार्थोपपादकेति । परिकराङ्कुरेतिव्याप्तिवारणाय विशेषणेति।मीलितं निमीलितम्। स्रस्तं गलितम्। गरुडसंबन्ध्युपलै रक्तमणिभिश्च । वीचिभिः क्षालितो कालियाख्यसर्पशत्रुकृष्णपादौ यया तत्संबोधनम् । स्वर्गङ्गे । संसाररूपसर्पदष्टात्मन इत्यर्थः । 'प्रार्थने लोट्' इत्याशयेनाह-आशंसनमिति । तत्र वाक्यार्थे । परिणामेन तदलंकारेण । तथा च मयूरव्यंसकादित्वात्समासो बोध्यः। तादाार्थ्यपत्या व्यालरूपविषयिणीति शेषः। आगमेति । पुराणेत्यर्थः । धानाय तत्करणाय ।नामान्तरेति।वीचिक्षालितवासुदेवचरणे इत्यादेरित्यर्थः। सा शक्तिः।