पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। दृश्यगर्भविशेषणोत्थापिता सादृश्यमूला समासोक्तिः' इत्युक्तम् । तत्र हि विशेषणसाम्यसत्त्वादुक्तिसंभवोऽप्यस्ति, न तु त्वदुक्तायामिति मूलग्रन्थानवबोधस्तद्विरोधो वा स्फुट एवेति दिक् । सेयं लौकिके व्यवहारे लौकिकस्य व्यवहारस्य शास्त्रीये शास्त्रीयस्यारोपेण, एतद्विपर्ययेण च चतुर्धा । तत्राद्या प्रागभिहितैव । द्वितीया यथा- 'गुणवृद्धी परे यस्मिन्नैव स्तः प्रत्ययात्मके । बुधेषु सदिति ख्यातं तब्रह्म समुपास्महे ॥' अत्र वेदान्तशास्त्रसिद्धव्यवहारे व्याकरणसिद्धस्य शतृशानज्व्यव- हारस्य । लौकिके शास्त्रीयस्य यथा- 'परार्थव्यासङ्गादुपजहदथ स्वार्थपरता- मभेदैकत्वं यो वहति गुणभूतेषु सततम् । स्वभावाद्यस्यान्तः स्फुरति ललितोदात्तमहिमा समर्थो यो नित्यं स जयतितरां कोऽपि पुरुषः ॥' अत्र समर्थसूत्रगतमहाभाष्यार्थस्य । तत्र हि 'अथ ये वृत्ति वर्तयन्ति कि त आहुः' इत्यादिना जहत्स्वार्था वृत्तिरजहत्स्वार्थी वृत्तिरिति पक्षद्वयं निरूपितम् । तत्रैवोपसर्जनार्थे अभेदैकत्वसंख्यापि ध्वनिता । प्रकटीकता च हरिणा- 'यथौषधिरसाः सर्वे मधुन्याहितशक्तयः । अविभागेन वर्तन्ते तां संख्यां तादृशीं विदुः ॥ इति । सामर्थ्यमप्येका भावबोधकतारूपं तत्रैवोक्तम् । मप्यसंगतमेव । तच्छिक्षकत्वात् । ईदृशाप्रस्तुतप्रशंसाया अपि तैरनङ्गीकारेण तवापि तद्विरोधस्य सत्त्वाच्च । प्राचामाशयस्य प्रागुक्तत्वाच्चेति दिक् । सेयं चतुर्विधा समासोक्तिः। यस्मिन् शतशाज्रूपे आनन्दरूपे च । प्रत्ययसंज्ञके चिद्रूपे च । परत उत्कृष्ट च । अदेङादैच् । सत्त्वादिगुणवर्धने च । देवेषु वैयाकरणेषु च । सत्संज्ञकं सद्रूपं च । ब्रह्म शब्द- रूपमर्थरूपं चेत्यर्थः । वर्तयन्ति निष्पादयन्ति । एकार्थीभावबोधकर्तेति । एका-