पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः । अत्र वनवर्णने प्रस्तुते तत्सारूप्यात्कुटुम्बिषु धनसंतानादिसमृद्ध्यसमृद्धिविपर्यासं प्राप्तस्य तत्समाश्रयस्य ग्रामनगरादेर्वृत्तान्तः प्रतीयते" इत्युक्तं तदसत् । समासोक्तिजीवातोर्विशेषणसाम्यस्यात्राभावेन समासोक्तिताया एवानुपपत्तेः । न च विशेषणसाम्यात्सादृश्याद्वा यत्राप्रस्तुतव्यव- हारः प्रस्तुतेन व्यज्यते सा समासोक्तिरिति लक्षणं निर्मास्यत इति वाच्यम् । समासोक्तौ हि प्रकृतवृत्तान्तोऽप्रकृतवृत्तान्ताभेदेन स्थित इति सर्वसंमतम् । त्वयापि च 'प्रकृतधर्मिण्यप्रकृतव्यवहार आरोप्यते' इत्युक्तम् । एवं स्थिते नह्यत्र स्रोतोवृक्षादिविपर्यासो धनसंतानविपर्यासाद्यभेदेन प्रतीयते । नापि वनादौ धनसंतानविपर्यास इति समासोक्त्यन्तरासत्यपि वैलक्षण्ये यद्यसौ समासोक्तिरिति शपथः क्रियते तदा अलंकारान्तरमपि समासोक्तिकुक्षावेव निक्षिप्यताम् । एवं तर्हि 'पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां' इत्यत्र कोऽलंकारः । अप्रकृतेन वाच्येन प्रकृतव्यवहाराभिव्यक्तिरूपाया अप्रस्तुतप्रशंसाया अत्रासंभवात्प्रकृतस्यैव वाच्यत्वादिति चेत्, साधु पृष्टमायुष्मता । समाधानमस्य सप्रपञ्चमप्रस्तुतप्रशंसाप्रकरण एव निवेदयिष्याम इति । किं चालंकारसर्वस्वकृता 'सा- क्षितिरुहां तरूणाम् । वनवर्णने वनवृत्तान्ते। तत्सारूप्यात् वनसादृश्यात् । ग्रामादौ वनसादृश्यमाह-कुटुम्बिष्विति । कुटुम्बिगतो यो धनसंतानादिसमृद्य़समृध्योविपर्यासस्तं प्राप्तस्येत्यर्थः । तत्समाश्रयस्य तादृशकुटुम्बिसमाश्रयस्य । जीवातोरिति । चिन्त्यमिदम् । विशेषणसाम्यगम्यसादृश्यगम्यत्वेऽपि तत्त्वानपायात् । नात्र स्रोतोवृक्षादिविपर्यास इति। न प्रतीयत इत्यत्र शपथारिक्तं प्रमाणमन्विष्यतामिति चिन्त्यमिदम् । विपर्यास इति । प्रतीयत इत्यस्यानुषङ्गः । निक्षिप्यतामिति । तथा च बहुव्याकुली स्यादिति भावः । समाधानमस्येति । अप्रस्तुतप्रशंसैवात्रालंकारः । अप्रस्तुतस्य प्रशंसेति न तदर्थः, किं त्वप्रस्तुतेन प्रस्तुतस्य प्रशंसेति । एवं च वाच्येन व्यक्तेन वाप्रस्तुतेन वाच्यं व्यक्तं वा प्रस्तुतं यत्र प्रशस्यते सादृश्याद्यन्यतमप्रकारेण साप्रस्तुतप्रशंसेति । न तु वाच्येनैव व्यङ्गथमेवेतीति भावः । चिन्त्यमिदम् । युक्त्यसहत्वात् । तथा हि प्रशंसनमत्र किमुत्कर्षाधानं प्रतीतिमात्रं वा । नाद्यः । प्रतीयमानार्थानध्यारोपविषयेष्वप्रस्तुतप्रशंसोदाहरणेष्वव्याप्तेः । नहि ताटस्थ्येनावस्थितोऽप्यर्थ उत्कर्षकर इति युक्तम् । नान्त्यः । प्रकृतेऽभावात् । नह्यत्राप्रस्तुतेन प्रस्तुतस्य प्रतीतिः।वाच्यत्वात् । न चान्यतरत्वेनानयोः संग्रहः । समासोक्तेरेवान्यतरत्वघटितलक्षणकरणे बाधकाभावात् । अतिशयोक्त्यादौ क्लृप्तत्वाच्च । किंचेत्यादिना सर्वस्वकारादिविरोधोद्भावन-