पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला । एवं च- 'परिफुल्लाब्जनयना चन्द्रिकाचारुहासिनी । हंसावलीहारयुता शरद्विजयतेतराम् ॥' इत्यत्रोपमारूपकयोः साधकस्य बाधकस्य चाभावात्संकरालंकारस्वीकर्तृनये तदुभयसंशयात्मक एकदेशविवर्ती संकरालंकार एव । तदस्वीकर्तृनये च यदोपमितसमासस्फूर्तिस्तदैकदेशविवर्तिन्युपमा, विशेषणसमा- सस्फूर्ती तथाविधमेव रूपकमिति प्रथमयोजनैवाप्रकृतार्थावगतेर्द्वितीययोजनायाः 'परिफुल्लाब्जानीव नयनानीत्युपमागर्भाया वैयर्थ्यादनुत्थानमेव । यदा तु 'शरद्वर्षासखी बभौ इति चतुर्थचरणं निर्मीयते तदा तु शरन्मात्रहत्तेर्वर्षासखीत्वस्योपादानादब्जचन्द्रिकाहंसप्रधानस्योपमितसमासस्यावश्यकत्वात्प्रथमप्रादुर्भतया नयनहासहाराक्षिप्तकामिनीरूपोपमानिकया अतएवैकदेशविवर्तिन्योपमयैव निर्वाह इति निवेदितमपि सहृदयप्रीतये पुननिवेदितम् । 'अथोपगूढे शरदा शशाङ्के प्रावृड्ययौ शान्ततडित्कटाक्षा । कासां न सौभाग्यगुणोऽङ्गनानां नष्टः परिभ्रष्टपयोधराणाम् ॥' इति कस्यचित्पद्ये प्रावृष एकदेशविवर्तिरूपकेणाङ्गनात्वसिद्धिरिति नो- त्तरार्धगतार्थान्तरन्यासानुपपत्तिः । प्रथमचरणे तूपगूहनसाम्यादस्तु नाम समासोक्तिः। यत्तु कुवलयानन्दे “सारूप्यादपि समासोक्तिदृश्यते । यथा- 'पुरा यत्र स्त्रोतः पुलिनमधुना तत्र सरिता विपर्यासं यातो धनविरलभावः क्षितिरुहाम् । बहोदृष्टं कालादपरमिव मन्ये वनमिदं निवेशः शैलानां तदिदमिति बुद्धिं दृढयति ॥' भेदानङ्गीकारे च । उपमेति । यथासंख्यमन्वयः । तदिति । संकरालंकारेत्यर्थः । चस्त्वर्थे । विशेषणेति । मयूरव्यंसकेतीत्यर्थः । तथाविधमेव एकदेशविवर्येव । 'चरणोऽस्त्रियाम्' इत्युक्तेनपुंसकत्वम् । तुरुक्तवैलक्षण्ये । एकदेशविवर्तीति । शान्ततडित्कटाक्षेत्यत्रत्येनेत्यर्थः । उपगृहनेति । आलिङ्गनेत्यर्थः । सारूप्यात् सादृश्यात् । पुरेति । उत्तरराघवे सीतात्यागानन्तरं कदाचिद्वनं गतस्य श्रीरामस्योक्तिरियम्