पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। "तन्वी मनोहरा बाला पुष्पाक्षी पुष्पहासिनी । विकासमेति सुभग भवद्दर्शनमात्रतः ॥' अत्र तनुत्वादिविशेषणसाम्याल्लोलाक्ष्यां लताव्यवहारप्रतीतिः । तत्र लतैकगामिविकासाख्यधर्मसमारोपः कारणम् । अन्यथा विशेषणसाम्यमात्रेण नियतलताव्यवहारस्याप्रतीतेः । विकासश्च प्रकृते उपचरितो ज्ञेयः" इत्यलंकारसर्वस्वकार आह, तत्र विचार्यते-नात्र विशेषणसाम्यमात्रेण लताव्यवहारप्रतीतिः, अपि तु लतारूपाप्रकृतासाधारणविकासारोपमहिम्नेति भवतेवोक्तम् । तथा च विशेषणसाम्यादप्रस्तुतस्य गम्यत्वमिति त्वदुक्तसमासोक्तिलक्षणस्य कथमत्र प्रवृत्तिः । न च लक्षणे विशेषणसाम्यमात्रगम्यत्वं न विवक्षितम्, अपि तु विशेषणसाम्यगम्यत्वम् । प्रकृते च विकासस्याप्यधिकस्य गमकत्वम् । न त्वेतावता विशेषणसाम्यस्य गमकताहानिरिति वाच्यम् । श्लेषेऽतिव्याप्त्यापत्तेः । न च विशेषणमात्रसाम्यगम्यत्वं विवक्षितम् । एवं च न श्लेषेऽतिव्याप्तिः नापि 'तन्वी मनोहरा' इत्यत्र लक्षणस्यावर्तनमिति वाच्यम् । 'तन्वी मनोहरा' इत्यत्र समासोक्तरेवाभावात् । यत्र साधारणविशेषणमहिम्नाप्रकृतस्य स्फूर्तिस्तत्र समासोक्तिः, यत्र त्वसाधारणमहिना तत्र व्यङ्गयरूपकमिति विषयव्यवस्थापनात् । एवं च प्रकृते साधारणविशेषणसत्त्वेऽपि न तन्महिम्ना लतायाः स्फूर्तिः, अपि तु विकासमहिम्नेति व्यङ्ग्यरूपकमुचितम् । यथा- 'चकोरनयनानन्दि कह्लाराह्लादकारणम् । तमसां कदनं भाति वदनं सुन्दरं तव ॥' इत्यादौ सुन्दरमिति साधारणविशेषणसत्त्वेऽपि रूपकमेव तथेहापि । न्यथा तत्समारोपस्याकारणत्वे । विशेषणेति । तेषामन्यसाधारण्यादिति भावः । कादाचित्कस्य संभवादाह-नियतेति । श्लेषेऽतिव्यास्यापत्तेरिति । तत्र विशेष्यस्य श्लिष्टत्वेऽपि विशेषणसाम्यस्याक्षतेरिति भावः । विशेषणमात्रेति । मात्रपदेन विशेष्यसाम्यव्यावृत्तिर्न धर्मान्तरविकासादेरिति भावः । न श्लेष इति । तत्र विशेष्यस्यापि श्लिष्टत्वादिति भावः । समासोक्तरेवेति । सर्वस्वग्रन्थसिद्धान्तात्प्रकृतेऽप्रकृतलताप्रतीतावपि क्रियारूपतद्वयवहारस्य कस्यचिदप्रतीतेर्नात्र समासोक्तिरित्यपि बोध्यम् । एतेन यदपीत्याद्यपि सर्वस्वग्रन्थः परास्त इति दिक । एवं च उक्त-