पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। 'अन्धेन पात भीत्या संचरता विषमविषयेषु । दृढमिह मया गृहीता हिमगिरिशृङ्गादुपागता गङ्गा ॥' अत्र गिरिशृङ्गप्रभववेणुयष्टिव्यवहाराभेदेन । कार्यसाधारण्येन यथा- 'देव त्वां परितः स्तुवन्तु कवयो लोभेन किं तावता स्तव्यस्त्वं भवितासि यस्य तरुणश्चापप्रतापोऽधुना । क्रोडान्तः कुरुतेतरां वसुमतीमाशाः समालिङ्गति द्यां चुम्बत्यमरावतीं च सहसा गच्छत्यगम्यामपि ।' कार्यधर्मान्तरयोः संकरेण साधारण्यं यथा- 'उत्क्षिप्ताः कबरीभरं विवलिताः पार्श्वद्वयं न्यकृताः पादाम्भोजयुगं रुषा परिहृता दूरेण चेलाञ्चलम् । गृह्णन्ति त्वरया भवत्प्रतिभटक्ष्मापालवामध्रुवां यान्तीनां गहनेषु कण्टकचिताः के के न भूमीरुहाः ॥' अत्र कण्टकचितत्वेन कबरीग्रहणादि संकीर्णम् । समासोक्तौ व्यज्यमानस्याप्रकृतव्यवहारस्योपस्कारकत्वमेव, न प्राधान्यम् । तदुपस्कृतवाच्यस्यैव तु प्राधान्यमित्युक्तम् । तत्र यदि व्यङ्गयस्यैव प्राधान्यं स्यात् न वाच्यस्य तदा 'देव त्वां परितः स्तुवन्तु-' इति प्रागुदाहृतपद्ये निन्दाव्याजेन स्तुतौ पर्यवसानं न स्यात् । स्तुतिनिन्दयोः प्रकृताप्रकृतव्यवहाराश्रयत्वादिति ध्येयम् । यत्तु इदानीमेव खण्डितोऽधरो येनेत्यर्थः । अन्धेन चक्षुहीनेन अज्ञानिना च । पातः पतनं नरकपातश्च । विषयेषु देशेषु नायिकादिषु च । दृढमिति क्रियाविशेषणम् । व्यवहाराभेदेनेति । गङ्गावृत्तान्तः स्थित इति भावः । कार्येति । कार्यरूपधर्मकृतशुद्धसाधारण्येनेत्यर्थः । देवेति । राजानं प्रति कव्युक्तिः । भवितासि । अपि तु न । दुराचारसंबन्धित्वात् । तदेवाह-यस्येति । 'न ना क्रोडो भुजान्तरम्' । आशा दिशः । अगम्यामपि अमरावतीमपीत्यर्थः । उत्क्षिप्ता इति । ऊर्ध्वं क्षिप्ता इत्यर्थः । विवलिता वक्रीकृताः । न्यकृता अधःकृताः । के के न गृह्णन्ति । अपि तु सर्वेऽपीत्यर्थः । अत्र कण्टकचितत्वं कार्याऽन्यधर्मः । रोमाञ्चव्याप्तत्वं कण्टकयुतत्वं च तस्यार्थः । कबयादिग्रहणं कार्यरूपो धर्मः । तस्यैव प्रतिपाद्यत्वात् । आदिना पार्श्वद्वयग्रहणादिसंग्रहः । एवं पूर्वोदाहरणेष्वपि यथायथं बोध्यम् । तत्र तयोर्मध्ये । तत्र तद्वयवहारप्रतीतौ । अ-