पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। ३७७ समासोक्तौ तयोः पृथक्छब्दवेद्यत्वाभावात् । किं तु प्रकृतवाक्यार्थघटकाः पदार्थास्तादात्म्येनाप्रकृतघटकपदार्थालीढा एव वैशिष्टयमनुभवन्तो महावाक्यार्थरूपेण परिणमन्तीति सूक्ष्ममीक्षणीयम् । अतिशयोक्ताविवाप्रकृतेन प्रकृतस्य निगरणं तु न वाच्यम् । तस्य शब्दवाच्यत्वात् । अथास्याः केवलभेदा निगद्यन्ते- विशेषणसाम्यं श्लेषेण भवति शुद्धसाधारण्येन वा । तदपि धर्मान्तरपुरस्कारेण कार्यपुरस्कारेण वेति प्रत्येकं द्विविधम् । तत्र 'विबोधयन्करस्पर्शैः' इत्यत्र धर्मान्तरपुरस्कारेण श्लेषे समुदाहृतमपि विशेषणसाम्यं पुनरुदाहियते- 'उत्सङ्गे तव गङ्गे पायं पायं पयोऽतिमधुरतरम् । शमिताखिल श्रमभरः कथय कदाहं चिराय शयिताहे ॥' अत्र शिशुजननीवृत्तान्ताभेदेन स्थितः प्रकृतवृत्तान्तः । श्लिष्टकार्यपुरस्कारेणाप्युदाहृतं 'संगृहास्यलकान्निरस्यसि-' इत्यत्र । शुद्धसाधारण्येन धर्मान्तरपुरस्कारेण यथा- 'अलंकर्तु कर्णौ भृशमनुभवन्त्या नवरुजां ससीत्कारं तिर्यग्वलितवदनाया मृगदृशः । कराब्जव्यापारानतिसुकृतसारान्सयतो जनुः सर्वश्लाघ्यं जयति ललितोत्तंस भवतः ॥' अत्र नवकान्तया केशेन कर्णे क्रियमाणस्योत्तंसस्य वृत्तान्तः प्रत्यग्रखण्डिताधरकामुकवृत्तान्ताभेदेन स्थितः । यथा वा- वाक्यार्थता । तदाह-वैशिष्टयमिति । अवान्तरवाक्यार्थयोभिन्नत्वादाह-महेति । तस्यति । प्रकृतस्य विशेषणमात्रप्रतिपाद्यत्वादित्यर्थः । तदपि द्विधा तत्साम्यमपि । धर्मान्तरेति । कार्यातिरिक्तधर्मपुरस्कारेणेत्यर्थः । कार्यातिरिक्तधर्मप्रतिपादकविशेषणसाम्येनाप्रकृतार्थोपस्थापनं कार्यरूपधर्मप्रतिपादकतत्साम्येन वेति द्वैविध्यमिति भावः । उत्सङ्गे उरौ मध्ये च । पायं पायं पीत्वा पीत्वा । पयो जलं दुग्धं च । शयिताहे इति लुडुत्तमपुरुषस्यैकवचनम् । रुजाशब्दष्टावन्तः । तिर्यग्वलितेति । अतिचक्रीकृतेत्यर्थः । अतिसुकृतेति । अतिपुण्यसाररूपानित्यर्थः । रसयतोऽनुभवतः । हे रमणीकणभूषण, सर्वस्तुत्यं तव जन्म जयतीत्यर्थः । नवकान्तया नवोढया । प्रत्यग्रेति ।